काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 68, कुल 942 में से
संदर्भ में पढ़ें५४ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
जातकग्रन्थे निर्देशोपलम्भेन पूर्वपरम्परानुवृत्तामायुर्वेदविद्यां रक्षितुं काशिराजकुले चिरकालमनुरागोऽवगम्यते। औपधेनवौरभ्रसौश्रुत-पौष्कलावेतानां चतुर्णां सुश्रुते समप्राधान्यनिर्देशेन पूर्वपुरुषीयं सौश्रुतमौपधेनवादिकं वा कतमतन्त्रं तत्र प्रसृतमासीदिति विशेषोल्लेखानुपलम्भेऽपि नागार्जुनभाष्यकारादिभिः सुश्रुतसौश्रुतानां विशेषतो ग्रहणेन औपधेनवादीनां नाम्नाप्य निर्देशेन च सौश्रुतः सम्प्रदायः पश्चिमदिग्भागेऽपि विशेषतः पूर्वप्रदेशे प्रचलित आसीदित्यूहितुं शक्यते। पश्चिमप्रदेशे कायचिकित्साप्रस्थानं, काश्यादिपूर्वप्रदेशेषु सौश्रुतं शल्यप्रस्थानं प्रचलितमासीदिति तु नियन्तुं नैव शक्यते। काशिस्थधन्वन्तरिसम्प्रदायेऽप्यष्टप्रस्थानोल्लेखो दृश्यते। "विविधानि शास्त्राणि भिषजां प्रचरन्ति लोके" (च.वि.अ.) इत्यात्रेयोऽपि सर्वतो नानाविधभैषज्यविद्यायाः प्रचारं स्वमुखेनोद्गिरति। चरकसंहितालेखात्पाञ्चालकाम्पिल्यादिषु, भेडलेखाद्धान्धारेषु, काश्यपलेखाद्गङ्गाद्वारकनखलादिष्वायुर्वेदविद्योपदेशस्य दर्शनेन तत्रापि सा विद्या प्रतिष्ठिता दृश्यते। तेन गान्धारादारभ्य, न केवलं गान्धारादपि तु बाल्हीकभिषजः काङ्कायनस्यापि तदात्वे उपलम्भेन बाल्हीकात् काशीपर्यन्तं पश्चिमोत्तरप्रदेशेषु भैषज्यविद्यायाः प्रचारः समुन्नतिश्च पूर्वमासीदित्यनुमातुं शक्यते। परं काशीयुवराजेन ब्रह्मदत्तेन तक्षशिलां गत्वा वैद्यविद्यायाअध्ययनस्य जातकग्रन्थात्, मगधान्तर्गतैन बुद्धसामयिकेन जीवकेन सन्निकृष्टां काशीमुपेक्ष्य तक्षशिलामुपेत्य भैषज्यविद्यायां विशेषवैदुष्यस्य संपादनस्य, ततोऽधीत्य निवृत्तेन तेन जीवकेन विद्यां लब्ध्वा पदस्थस्य ब्रह्मदत्तस्य समये कस्यचिच्छ्रेष्ठिपुत्रस्योदरं विदार्य काश्यां शस्त्रचिकित्सयोल्लाघनस्य, अन्येषामपि बहुशो रोगिणां तत्र तत्र शस्त्रचिकित्सया कायचिकित्सया च जीवकस्य ख्यातेश्च महावग्गलेखतोऽवगमेन, जातकग्रन्थेभ्यो देशदेशान्तरतोऽप्यधिजिगमिषूणां तत्रोपगमवृत्तोपलम्भेन च विद्यान्तराणामिव भैषज्यविद्यायाः कालक्रमेण बुद्धसन्निकृष्टसमये काश्यपेक्षया शल्यप्रस्थानीयविद्याया अपि तक्षशिलादिषु विज्ञानगौरवं प्रतीयते। काश्यां पश्चात् समये समये राज्योपप्लवस्येतिहासतोऽप्यवगमेन समयवशाद्धासः, आचार्यविशेषैश्चर्चाबाहुल्येन तक्षशिलादिष्वतिशयस्याधानमपि सम्भवति। अन्ततो गत्वा अशोकनृपसमये स्वदेश इव विदेशपर्यन्तमपि चिकित्सालयादीनामुद्घाटनेनेयं भैषज्यविद्या दूरदूरं प्रससार च। परं तादृशे विद्यापीठे तक्षशिलादिपरिसरप्रदेशेऽपि पश्चात्समयान्तरे विद्याह्रासमुपजगाम। तत्रापीतिहासलभ्येन राज्यविप्लवादिनेव हेतुना भवितव्यम्। तथैव बुद्धसमये तक्षशिलापेक्षया काश्यां तस्या विद्याया ह्रास इवानुभूयते॥
आत्रेयः
"इन्द्र ऋषिभ्यश्चतुर्भ्यः काश्यपवसिष्ठात्रिभृगुभ्यस्ते पुत्रेभ्यः शिष्येभ्यश्च प्रददुहितार्थम्" इति (पृ. ६१) काश्यपसंहितायां पूर्वसंप्रदायोल्लेखेन आयुर्वेदविद्यायामत्रेयप्रथमः संप्रदायः प्रवृत्तोऽवगम्यते। यत्र गोत्रनाम्ना आत्रेयाख्या भिक्षुरात्रेयः, कृष्णात्रेयः पुनर्वसुरात्रेयश्च आचार्या अवगम्यन्ते। अन्येऽप्यनेके अत्रिपरम्परागताआचार्या भवेयुः। यथा कश्यपपरम्परायां मारीचशब्देन विशेषितः कश्यपः कौमारभृत्यसंहितायाम्, एवमेवात्रेयपरम्परायां पुनर्वसुनाम्ना विशेषित आत्रेयः अग्निवेशादीनामुपदेशकश्चरक-संहितामूलोपदेशक आचार्यः। स एवायं पुनर्वसुरात्रेयश्चन्द्रभागाया मातुर्नाम्ना चरके "यथाप्रश्नं भगवता व्याहृतं चान्द्रभागिना" (सू. १३) इति, भेडसंहितायां "सुश्रोता नाम मेधावी चान्द्रभागमुवाच ह" (पृ. ३९) इति चान्द्रभागः चान्द्रभागी पुनर्वसुरित्यपि व्यवहृतो दृश्यते। चरके "त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता" (सूत्र. अ. ११) इति एकद्वस्थाने, भेडसंहितायामपि "कृष्णात्रेयं पुरस्कृत्य कथाश्चक्रमहर्षयः" इति क्वचन कृष्णात्रेयनाम्ना व्यवहारस्य दर्शनेन पुनर्वसुरात्रेय एव कृष्णात्रेय शब्देनापि व्यवह्रियते इत्यपि केषाञ्चिन्मतम्। अपरे तु श्रीकण्ठदत्तशिवदासादिभिः कृष्णात्रेयनाम्ना शालाक्यविषयकवचनान्तराणामुल्लेखेन आत्रेयपुनर्वसोरन्य एव कृष्णात्रेय इत्यपि वदन्ति। चरकसंहितायामादितोऽन्तपर्यन्त-मात्रेयनाम्नाऽऽत्रेयपुनर्वसुनाम्ना वा प्रायो व्यवहरणेन, भेडसंहितायामपि पुनर्वसुनाम्नाऽऽत्रेयस्य व्यवहरणस्य प्रायिकतया, आत्रेयपरम्परायां वर्तमानस्य कृष्णात्रेयनाम्न आचार्यान्तरस्यापि मतमुपादाय क्वचन तन्निर्देशनस्य चरकभेडसंहितयोः सम्भावितया, कृष्णात्रेयशब्दयोरेकत्र सहप्रयोगस्यानुपलम्भेन च कृष्णात्रेयः पुनर्वसुरात्रेयश्च विभिन्नावाचार्यौ इत्यपि वक्तुं शक्यते॥
चरकसंहितायामात्रेयपुनर्वसुना वार्योविदस्य तत्सहभाविनोमारीचिकश्यपस्य च पूर्वाचार्यदृशा उल्लेखनस्य पूर्वनिर्दिष्टतया मारीचकश्यपादुत्तरभावी, चरकसंहितागतेनोल्लेखेन काम्पिल्यराजधान्यां पाञ्चालप्रदेशे वर्तमान पुनर्वसुरात्रेय आचार्यइत्यवगम्यते॥ एवमस्यां काश्यपसंहितायां पादचतुष्कवर्णने—