काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 87, कुल 942 में से
संदर्भ में पढ़ेंउपोद्घातः ७३
आयुरारोग्यादिश्रेयस्करत्वं श्रुतिषु स्मृतिषु चोल्लिखितं बहुशोदृश्यमानमतिपुराकालादेश तदुपयोगपरिज्ञानं भारतीयानामभिव्यनक्ति । यजुर्वेदे 'प्रथमो दैव्यो भिषक्' इति रुद्रस्यापि प्रथमवैद्याचार्यत्वं प्रतिपाद्यते । आत्रेयादिभिर्ब्रह्मणः प्राथमिकत्वमुल्लिख्यते, न तत्र रुद्रस्योल्लेखः । तन्त्रशास्त्रे नातसम्प्रदायीयग्रन्थेऽपि रसवैद्यकस्य विषयस्तत्र तत्रोपलभ्यते । तन्त्रशास्त्रे नाथसम्प्रदाये च शिवस्य परमाचार्यत्वं निर्दिश्यते । तेन तान्त्रिकादिप्रचलितरसवैद्यकादिरूपप्रस्थानान्तरे मूलाचार्यत्वं रुद्रस्य भवितुमर्हति । रसविषयस्य प्राचीनतन्त्रग्रन्थेष्वप्युपलभ्यमानतया चरकसुश्रुतकाश्यपीयादिषु लेशतोऽपि तद्दर्शनेन च अर्वाचीनत्वमेवेति न वक्तु शक्यते । अरबदेशे सप्तमशताब्दीतः प्रचलितस्यापि रसायनस्य युरोपीयैः षोडशशताब्दीत एव ग्रहणमिव पूर्वतः प्रचलितस्यापि तन्त्रोक्तस्य रसवैद्यकस्य वैदिकसंप्रदायानुरक्तदृष्टिभिरात्रेयादिभिः स्वसमये लेशत एव ग्रहणमारब्धमासीदित्यपि वक्तुं न खलु न शक्यते ।।
धातूंनां शोधनादिना योगेन च तन्त्रोक्ता भारतीयाऽपि नानारसौषधनिर्माणप्रक्रिया बहुपुराकाले गुप्ताऽप्रचलिता आंशिकरूपेण वर्तमाना वाऽऽसीत् । पश्चात्काले नागार्जुनादिभिर्भारतीयैः रसविद्याचार्यैः प्रकाशं विकासं चापादिता स्यात् । येन प्रत्नतरग्रन्थेषु विशेषेण तदनुपलम्भ इति वक्तुं मनः प्रवणीभवतीत्यलम् ।।
(३) संस्कारतुलनादिसहितो विषयपरिच्छेदः
प्रतिसंस्कारः
प्राचीनाचार्यानामोपलब्धासु संहितासु वृद्धजीवकीयतन्त्ररूपा काश्यपसंहिता, चरकसंहितारूपा आत्रेयाग्निवेशसंहिता, सुश्रुतसंहितारूपा धन्वन्तरिसंहिता, भेडसंहिता न प्रातीनेति तासु क्वचनार्वाचीनत्वसंशयकानां पदवाक्यप्रबन्धविशेषाणामनुप्रवेशोऽपि संस्कारवशादेव स्यादिति च सविशेषमुपदर्शितम् ।।
तत्र काश्यपसंहितायाः संक्षिप्तस्वरूपविशेषस्य वृद्धजीवकीयतन्त्रस्य वात्स्येव प्रतिसंस्करणमेतदीये संहिताकल्पाध्याये (क. स्था.) कण्ठोक्तमेव । आत्रेयसंहितात्मकस्याग्निवेशतन्त्रस्य चरकाचार्येण प्रतिसंस्करणं च चरकसंहितायाः ‘अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते” इति श्लोके स्पष्टमेवोक्तमस्ति । सुश्रुतसंहितायाः प्रतिसंस्करणस्य ग्रन्थाभ्यन्तरे स्पष्टोक्तेरदर्शनेऽपि डल्लनादिभिष्टीकाकारैर्नागार्जुनीयं संस्करणमुल्लिख्यते । प्रतिसंस्कर्ता नागार्जुनो भवतु मा वा, तत्र तत्र विषयान्तरदर्शनादिना संस्कारनिष्पन्नमेतद्वर्तमानस्वरूपमिति तु सर्वैर्विद्वद्भि रवधार्यत एव । भेडसंहितायां कश्यपमतत्वेनोल्लिखितः ‘चक्षुरिति कश्यपः’ इति चक्षुर्निर्वृत्तिवादः, कश्यपोद्धृतो भेडीयः षड्वर्षोत्तरं विरेचनवादश्च उपलब्धभेडसंहितायां विसंवादं दर्शयतीत्युक्तमेव (पृ. १३) । भेडसंहितायां ज्वरसमुच्चयोद्धृतभेडवचनानां निरीक्षणे भेडनाम्नोद्धृतेषु पञ्चाशदधिकेषु श्लोकेषु मुद्रितभेडसंहितायां लेश¹त (सार्धश्लोकत) एव संवादेन ज्वरप्रकरणमिव प्रकरणान्तरमपि बहुशस्त्रुटितं विकलाङ्गमन्तराऽन्तरा विषयान्तरं पुनः प्रतिसंस्करणं च स्पष्टमवबुध्यते । तदीदृशो विप्लवो भेडसंहितायां धियमन्यथा गमयति । एकमात्रेयोपदेशमादाय पृथक्पृथङ्गिबन्ध्नोरग्निवेशभेडयोः पश्चान्निदर्शयिष्यमाणं बहुशः प्रबन्धनसाम्यं क्वचनांशे संवादासादनमप्यनुसन्धीयमानं धियः पुनः परावर्तयति । तदेवं भेडसंहितायां दृश्यमानो दोषः कालस्यैव शिरसि पातनीयः । पुनःसंस्करणोल्लेखस्तु न क्वाप्युपलभ्यते, तथाऽपि पुनः प्रतिसंस्करणं त्वत्रापि जातं स्पष्टमवबुध्यते ।।
तत्रात्रेयसंहितादीनुपादाय निबद्धानामग्निवेशतन्त्रादीनां चरकाचार्यादिभिः किंरूपं संस्करणं व्यधायीति विमर्शे चरकस्य संस्करणे दृढबलेन संस्करणक्रिया एवमुपवर्णिता दृश्यते—
१. शोषयत्येष भूतानि दारुणो विषमज्वरः । मु.पु.पृ. १२१
त्रिफला कषायसिद्धेन घृतेन मतिमान् भिषक् । स्नेहयेत यथान्यायं युक्त्या वृषघृतेन वा । पृ. १२२