काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 91, कुल 942 में से
संदर्भ में पढ़ेंउपोद्घातः ७७
आग्निवेश्य उपन्यासः स्यात्। चरके तदुत्तरं पुनरन्यो महागर्भावक्रान्त्यध्यायोऽस्ति। तत्र गर्भसम्बन्धीन्येव विषयान्तराणि निरूपितानि। तेषां विषयाणां भेडोऽनुपलम्भेन चरकीयः पश्चात्तनो विकासः प्रतिभाति। अथवा खुड्डिकापद्दर्शनेन महागर्भावक्रान्त्यध्यायस्यापि पूर्वत आग्निवेश्यसंहितायां सत्त्वं, भेडे खण्डितत्वम्, इत्यपि संभवति॥
वर्तमानचरकसंहिताया उपक्रमग्रन्थे ऋषीणां समवाये भरद्वाजेनेन्द्रसकाशाल्लब्धस्यायुर्वेदस्य प्रकाशनात् तमप्राप्तवतआत्रेयस्य शिष्यैरग्निवेशादिभिस्तन्त्रप्रणयनस्य अग्निवेशादितन्त्राणां भुवि प्रतिष्ठायाश्चाग्निवेशेन कथनापेक्षया चरकेण स्वसंस्क्रियमाणग्रन्थस्य साम्प्रदायिकत्वोत्कृष्टत्वादिमहिमगानस्यौचित्यात्, अग्निवेशेन पश्चात्क्वाप्येतेद्विद्याया भारद्वाजोपदेशप्राप्तेरसूचनात्, प्रत्युत भारद्वाजमतस्य प्रतिक्षेपदर्शनेन भारद्वाजसम्बन्धविशेषोल्लेखे तदौदासीन्यावगमाच्च, ‘अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः, इति ह स्माह भगवानात्रेयः’ इति वाक्यद्वयान्ते ‘हिताहितं सुखं दुःखं’ इत्यादित एवाग्निवेशतन्त्रस्य प्रारम्भे अन्तरागतो ग्रन्थावतरणिकांशश्चरकाचार्येण पूरितः स्यादित्यपि सम्भाव्यते। हिताहितमित्यादिकस्य ग्रन्थस्य प्राचीनप्रौढेरनुरूपलेखच्छायायास्तत्पूर्ववाक्ये विसंवादोऽपि एतदेवाख्यातुं हृदयमभिमुखीकरोति॥
वर्तमानचरकसंहितायां भेडसंहितायां च दृश्यमानयोः नवेगान्धारणीयाध्याययोस्तुलनायां चरकसंहितागतलेखे वेगनिरोधौचित्यानौचित्यसम्बद्धस्यैव विषयस्य, भेडलेखे तु अध्यायस्योपक्रमोपसंहारयोस्तद्विषयसत्त्वेऽपि मध्ये तदनुस्यूतानां दन्तधावनधूमवर्त्यादिविषयान्तराणामपि तत्स्थाने दर्शनेन अग्निवेशीये सन्दर्भशुद्धिः, भेडलेखे रचनायां किं वा उपलब्धपुस्तकस्य विकृत्या तदशुद्धिरवगम्यते॥
नावनीतके आत्रेयमतत्वेनोद्धृतानां बहूनां योगौषधविशेषाणां चरकसंहितायां संवादेऽपि द्वित्रयोगौषधानामसंवादेन, श्रीयुतचक्रपाणिशिवदासादिभिः अग्निवेशनाम्नोद्धृतानां कतिपयश्लोकानां चरकसंहितायामदर्शनेन च अग्निवेशसंहिताताः संस्करणावसरे कियान् भागो निष्कासितश्चेत्यप्यनुमीयते॥
इत्थमुपदर्शितदिशा भेडसंहितामग्निवेशतन्त्रं च पुरो निधाय प्रतिविषयमुभयत आलोचने स्थलान्तरेष्वपि चरकसंहितागता भेडसंहितागताश्च विशेषा बहुशो गवेषकाणां नयनयोः प्रतिभासेरन्॥
चरकसंहितायामध्यायाभ्यन्तरेऽपि तत्रतत्रोक्तानां गद्यवाक्यार्थानां प्रायः पद्यैः क्वचन गद्यैरपि संक्षेपेण क्वचन विस्तारेण च सङ्ग्रहविग्रहरूपत्वमापाद्यते। मध्ये मध्येऽपि ‘भवन्ति चात्र, अत्र श्लोकाः’ इत्यादिरूपेण क्वचन सङ्ग्रहार्थं क्वचनोपपादकार्थमवबोधयन्तः पद्यलेखाः, प्रत्यध्यायमान्ते ‘अत्र श्लोकाः’ इत्युद्दिष्टार्थसंग्राहकाः श्लोका अपि दृश्यन्ते। संक्षिप्तस्य विवरणेन ग्रहणसौकर्यं, विस्तृतस्य संक्षेपेण धारणसौकर्यं भावयन्त इत्थं लेखाः प्राचीनाचार्यलेखेषूपलभ्यन्ते। व्याकरणमहाभाष्यकारस्यापीयं शैली। कुसुमाञ्जल्यादिष्वपि कारिकाप्रतिपाद्यार्थानां पूरणिकारूपैर्गद्यवाक्यैर्विशदीकरणं, शास्त्रदीपिकाभामत्यादिषु विस्तृतप्रघट्टकार्थस्य कारिकारूपेण सङ्ग्रहणं दृश्यते। सुश्रुतकाश्यपीयादिष्वपि सङ्ग्रहविग्रहरूपेण द्विधा वर्णनं तत्र तत्रोपलभ्यते। इत्थमेकस्यापि विषयस्य बुभुत्सूनां हृदयोद्बोधनाय समासेन व्यासेन द्विधा निरूपणं मूलाचार्यस्यापि सम्भवति। एकप्रकारेण पूर्वाचार्येक्ते पुनरपरथा पश्चात् संस्कत्र्रा निरूपणमपि सम्भवति। गहनेषु विषयेष्वन्तर्मिमङ्क्षूणामुपयोगायेत्यमुक्तिभेदो न पौनरुक्त्यदोषमावहतीति प्रतिपत्तये—
‘गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते। तद्व्यक्तिव्यवसायार्थं द्विरुक्तं तन्न गर्ह्यते’ ।।
इति चरकसंहितायां स्पष्टमेवोक्तमस्ति। इत्थं समासव्यासरूपाभ्यां रचनाकौशलं ‘प्रौढिर्व्याससमासौ च’ इति गुणत्वेन न पुनर्द्दोषत्वेन कीर्त्यतेऽभियुक्तैः॥
१. निदानस्थाने अ. २. श्लो. ४१।