भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 92, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 92

७८ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

तदेवं चरकाचार्येणाग्निवेशतन्त्रं वाक्यश उपादायैव उपपत्तिपूर्तये संक्षिप्तये विशदीकृतये ग्रहणधारणोपयोगितया च स्वयमात्मना पूरणीयतया उपबृंहणीयतया च दृष्टानि पदानि वाक्यानि प्रघट्टकाँश्चानुप्रवेश्य मूलवाक्यानां स्वीयवाक्यानां च तिलतण्डुलभावायमानमेव प्रतिसंस्करणं व्यधायि। यथा हि भारतग्रन्थमन्तर्निवेश्यैव नानोपाख्यानादीनि वैशम्पायनादिप्रश्नप्रतिवचनादीनि पूरणिकावाक्यानि आद्यन्तयोरुपक्रमोपसंहारग्रन्थाँश्च निवेश्योपबृंहणेन भारतस्य महाभारतभाव इति महाभारतविमर्शेऽन्यत्रास्माभिः प्रतिपादितमस्ति। एवं प्रायमेवात्र संस्करणेन परिमार्जितरूपान्तरमुपपादितं चरकाचार्येण। येन मूलग्रन्थपरवशत्या मूलग्रन्थस्य यादृशो विषयपौर्वापर्यक्रमः स एव संस्कारोत्तरमपीत्यस्यां चरकसंहितायां सुश्रुतसंहितापेक्षया विशृङ्खलितो ग्रन्थसन्दर्भ इति लोकदृष्टिश्चरकाचार्येणापि न परिजह्रे। स्वातन्त्र्येणानेन निबद्धं यद्यभविष्यत् तदा तादृशः प्रौढविद्वान् पौर्वापर्यक्रमसन्दर्भशुद्धिं कथं नादर्शयिष्यत्। समासव्यासभेदेन पौनरुक्त्यमापन्नस्य प्रकीर्णस्य विषयस्याप्येकत्र सङ्कलनेन तथाभावं कथं न पर्यहरिष्यत्। एवंसंस्करणे ज्वरसमुच्चये आश्विनभारद्वाजादीनामपि वचनोपलम्भेन तद्दृष्टिपथं गतत्वेन सम्भावनीयानां भारद्वाजादिसंहितानामप्यनुसन्धानेन ततोऽपि सङ्गृहीता विषयाश्चरकाचार्येणान्रानुप्रवेशिता भवेयुः। तदेवं बहुभिः प्रयत्नैर्य्यापारैश्च प्रतिसंस्कृत्य प्राचीनेयं संहिता बहुविचारविषयपूर्णतां नीता स्यात्। येनैतत्परिज्ञानेन तन्त्रान्तराणां गतार्थतामस्या महनीयतां च संहितान्ते दृढबलः स्वमुखेनोद्गिरति—

‘यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्’ इति ।।

तदनेन गुणगौरवेण अन्वर्थस्य चरकनाम्न आनुरूप्येण सर्वतश्चरित्वा प्रचारेण किलास्य ग्रन्थस्यान्तरङ्गदृशा आत्रेयाग्निवेशसंहितारूपत्वेऽपि बहिरङ्गदृशा वर्तमानसंहितायाश्चरकसंहितानाम्ना ख्यातिरुपाजायत किल ? ।।

भेडसंहिताया अपि तावदध्यायात्मकत्वावगमेन च पूर्वं सविंशाध्या¹यशतात्मकग्रन्थस्य स्थानाष्टकरूपस्य आत्रेयेण अग्निवेशेन चोपदेशनस्योक्त्या साकल्येन वर्तमानस्यास्य ग्रन्थस्य अपस्मारप्रकरणोत्तरभागस्य कालवशाद्विलोपेन चरकसमयेऽप्यसंस्करणेन पश्चादात्रेयोपदिष्टहारीतादीनामुपदेशेभ्यो विषयाननुसन्धाय दृढबलः पूरणं चकार किलेति संभाव्यते। पश्चात्पूरिते तावति भागे पूर्वापेक्षयाऽवतीर्णः पद्यप्रायो विभिन्नलेखोऽप्येतदेव समर्थयति ।।

अग्निवेशनाम्ना चक्रपाणिशिवदासादिभिरुद्धृतानां वचनानां दर्शनेन तावत्समयपर्यन्तमग्निवेशतन्त्रस्योपलब्धिरासीत् किलेत्यपि सम्भावयितुं शक्यते। परं तथात्वे दृढबलसमयेऽपि तदवस्थितिसम्भवेन अग्निवेशतन्त्रस्यैव शेषभागयोजनेन पूरणमुपेक्ष्य शिलोञ्छवृत्त्या बहुभ्यस्तन्त्रान्तरेभ्यो विषयान् समुच्चित्य चिकित्सास्थानान्तसप्तदशाध्यायान् सिद्धिकल्पस्थाने च निबद्ध्य पूरणे दृढबलः किमिति प्रवर्तेत। अग्निवेशतन्त्रतः पूरणमनुल्लिख्य तन्त्रान्तरेभ्यः पूरणं स स्वमुखेन वर्णयति। उपसहस्रवर्षपूर्वलेखितपुस्तकोपलब्धेन ततोऽपि प्राचीनतयाऽवगते ज्वरसमुच्चये चरकस्य वचनोद्धारे सत्यप्यग्निवेशवचनोद्धाराभावेन, वाग्भटादिभिरपि चरकस्यैवोल्लेखेन, हारुरसीदन्नृपसमयेऽप्यस्या एव चरकसंहिताया अनुवादेन च वाग्भटदृढबलादिसमयात् पूर्वमेवाग्निवेशतन्त्रस्य विलुप्तिरनुमीयते। चक्रपाणिशिवदासादिपर्यन्तमप्यग्निवेशतन्त्रोपलम्भेऽग्निवेशस्य चरकस्य च तत्र तत्र विषये साम्ये वैषम्ये च बहुशः प्रदर्शयितव्ये कतिपयानामेवाग्निवेशवचनानामुद्धारदर्शनं प्राचीननिबन्धेषु टीकासुविहितेभ्य उद्धारेभ्यस्तदुपलम्भं द्योतयति ।।

सुश्रुतसंहितायास्तु संस्करणे न स्पष्टतया ग्रन्थलेखोऽस्ति। केवलं 'प्रतिसंस्कर्ताऽपीह नागार्जुनः' इति डल्लनलेखमुपलभ्य सुश्रुतसंहितायाः प्रतिसंस्कर्तारं नागार्जुनं केचिन्मन्यन्ते। नागार्जुनस्य प्रतिसंस्कर्तृभावेऽपि सुश्रुतस्य ततः पूर्वतनत्वं सिद्ध्यति। किन्तु वर्तमाना सुश्रुतसंहिता नागार्जुनेन प्रतिसंस्कृतेत्यत्र न किमपि बलवत्साधनमुपलभ्यते इति पूर्वमेवोक्तम्। यदि सप्रतिसंस्कर्ताऽभविष्यत् तदा चरके ‘अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते’ इति लेखवदत्रापि स्वस्य प्रतिसंस्कर्तृतां कथं


१. इत्यध्यायशतं विंशमात्रेयमुनिवाङ्मयम्।