भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 101, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 101

५६ कथासरित्सागर ऋक्ष मानुषमद्य मे क्षिप यावद् व्रजाम्यहम्। ऋक्षस्ततोऽब्रवीत्पाप ! न मित्रं घातयाम्यहम् ॥८४॥ क्रमादृक्षे प्रसुप्ते च राजपुत्रे च जाग्रति। पुनं सिंहोऽब्रवीत्तन्मृक्षं मे क्षिप मानुष! ॥८५॥ तच्छ्रुत्वात्मभयात्तन सिंहस्याराधनाय सः। क्षिप्तोऽपि नापतन्निम्नमृक्षो दैवप्रचोदितः ॥८६॥ मित्रद्रोहिन्मभोन्मत्त इति शापमवाप्य सः। तस्य राजसुतस्तत्त्वं वृत्तान्तावगमावधिम् ॥८७॥ प्राप्यैव स्वगृहं प्रातर्हन्मत्तोऽभून्नृपात्मजः। योगनन्दश्च तद् दृष्ट्वा विषादं सहसागमत् ॥८८॥ अब्रवीच्च स कालऽस्मिञ्जीवेद् वररुचिर्यदि। ज्ञायेत तत्सर्वं धिक् च तद्वधपाटवम् ॥८९॥ तच्छ्रुत्वा वचनं राज्ञः शकटालो व्यचिन्तयत्। हन्त कात्यायनस्यायं समयः काल प्रकाशने ॥९०॥ न सोऽत्र मानी तिष्ठेच्च राजा मयि च विश्वसेत्। इत्यालोच्य स राजानमब्रवीद्याचिताऽभयः ॥९१॥ राजन्ख विषादेन जीवन्वररुचिः स्थितः। योगनन्दस्ततोऽवादीद्द्रुतमानीयतामिति ॥९२॥ अथाहं शकटारेन योगनन्तान्तिकं हठात्। आनीतस्तं तथाभूतं राजपुत्रं व्यलोकयम् ॥९३॥ मित्रद्रोहः कृतोऽनेन देवेत्युक्त्वा तथैव सः। सरस्वतीप्रसादेन वृत्तान्तः कथितो मया ॥९४॥ सतस्तच्छापमुक्तेन स्तुतोऽहं राजसूनुना। त्वया कथमिवं ज्ञातमित्यपृच्छत्स भूपतिः ॥९५॥ अथाहमवदं राजँल्लक्षणैरनुमानतः। प्रतिभातञ्च पश्यन्ति सर्वं प्रज्ञावतां धियः ॥९६॥ तद्यथा तिष्ठतां मातस्तथा सर्वमिदं मया। इति मद्वचनात्साक्षाद्भूद्राजा सञ्जानुतापवान् ॥९७॥ अपानादृतमर्थाश्च परिगृह्यैव मामवान्। स्वगृहं गतवानस्मि धीर हि विदुषां धनम् ॥९८॥