कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 113, कुल 876 में से
संदर्भ में पढ़ें७८ कथासरित्सागर ततः सा तद्भयाद् गत्वा रक्षन्ती गर्भमात्मनः। तस्थौ कुमारदत्तस्य पितुर्मित्रस्य वेश्मनि ॥३०॥ तत्र तस्याश्च जातोऽहं साध्व्या वृत्तिमिव धनम्। ततश्चावर्धयत्सा मां कृच्छ्रकर्माणि कुर्वती ॥३१॥ उपाध्यायमथाम्यर्थ्य तयाकिञ्चन्यदीनया। क्रमेण शिक्षितश्चाहं लिपिं गणितमेव च ॥३२॥ वणिक्पुत्रोऽसि तत्पुत्र ! वाणिज्यं कुरु साम्प्रतम्। विशाखिलाख्यो देशेऽस्मिन् वणिक्चास्ति महाधनः ॥३३॥ दरिद्राणां कुलीनानां भाण्डमूल्यं ददाति सः। गच्छ याचस्व तं मूल्यमिति माताब्रवीच्च माम् ॥३४॥ ततोऽहमगमं तस्य सकाशं सोऽपि तत्क्षणम्। इत्यवोचत् रुषा कञ्चिद् वणिक्पुत्रं विशाखिलः ॥३५॥ मूषको दृश्यते योऽयं गतप्राणोऽत्र भूतले। एतेनापि हि पण्येन कुशलो धनमर्जयेत् ॥३६॥ दत्तास्तव पुनः पाप दीनारा बहवो मया। दूरे तिष्ठतु तद्वृद्धिस्त्वया तेऽपि न रक्षिताः ॥३७॥ तच्छ्रुत्वा सहसैवाहं तमवोचं विशाखिलम्। गृहीतोऽयं मया त्वत्तो भाण्डमूल्याय मूषकः ॥३८॥ इत्युक्त्वा मूषकं हस्ते गृहीत्वा सम्पुटे च तम्। लिखित्वास्य गतोऽभूवमहं सोऽप्यहसद् वणिक् ॥३९॥ चणकाञ्जलिमुग्मं मूल्येन स च मूषकः। मार्जारस्य कृते दत्तः कस्यचिद् वणिजो मया ॥४०॥ कृत्वा तोयवणशक्तून्तान्गृहीत्वा जलकुम्भिकाम्। मतिष्ठं परतरं गत्वा छायायां नगराद् बहिः ॥४१॥ तत्र श्रान्तागतायाम्भः शीतलं चणकांश्च तान्। काष्ठभारिकसङ्घाय सप्रश्रयमदामहम् ॥४२॥ एकैकः काष्ठिकः प्रीत्या काष्ठे द्वे द्वे ददौ मम। विक्रीतवानहं तानि नीत्वा काष्ठानि चापणं ॥४३॥ ततः स्तोकेन मूल्येन क्रीत्वा तांश्चणकांस्ततः। तथैव काष्ठिकेभ्योऽहमन्येद्युः काष्ठमाहरम् ॥४४॥