भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 133, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 133

९६ कथासरित्सागर तच्छ्रुत्वा मम राज्ञश्च विषादप्रमदौ द्वयोः । अभूतां मेघमालोक्य हंसचातकयोरिव ॥१६२॥ आगत्य शर्ववर्मापि कुमारवरसिद्धिमान् । चिन्तितोपस्थिता राज्ञे सर्वा विद्याः प्रदत्तवान् ॥१६३॥ प्रादुरासञ्च तास्तस्य सातवाहनभूपतेः । तत्क्षणं किं न कुर्याद्धि प्रसादः पारमेश्वरः ॥१६४॥ अथ तमखिलविद्यालाभमाकर्ण्य राज्ञः प्रमुदितवति राष्ट्रे तत्रकोऽप्युत्सवोऽभूत् । अपि पवनविधूतास्तत्क्षणोल्लास्यमानाः प्रतिवसति पताका बद्धनृत्ता इवासन् ॥१६५॥ राजार्हैरत्ननिचयैरथ शर्ववर्मा सम्भाषितो गुरुरिति प्रणतेन राज्ञा । स्वामीकृतश्च विषये भरुकच्छनाम्नि कूलोपकण्ठविनिवेशिनि नर्मदायाः ॥१६६॥ योऽभूच्चारमुखेन षण्मुखवरप्राप्तिं समाकर्णय- त्सन्तुष्ट्यात्मसमं धिया नरपतिस्तं सिंहगुप्तं व्यधात् । राज्ञीं तामपि विष्णुशक्तितनयां विद्यागमे कारणं देवीनामुपरि प्रसङ्गकृतवान्प्रीत्याभिषिच्य स्वयम् ॥१६७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके पञ्चमस्तरङ्गः ।

सप्तमस्तरङ्गः ततो गृहीतमौनोऽहं राजास्तिकमुपागमम् । तत्र च श्लोकमपठद्विजः कश्चित्स्वयं कृतम् ॥१॥ तं चाचष्ट स्वयं राजा सम्यक्संस्कृतया गिरा । तत्रालोक्य च तत्तस्या जनः प्रमुदितोऽभवत् ॥२॥ ततः स शर्ववर्माणं राजा सविनयोऽब्रवीत् । स्वयं कथय देवेन कथं तेऽनुग्रहः कृतः ॥३॥ तच्छ्रुत्वानुग्रहं राज्ञे शर्ववर्म्ान्यसापयत् । ततो राजभिराहारो मौनस्योऽभू तदा सह ॥४॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 133, कुल 876 में से · BharatKosha