भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 137, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 137

१ कथासरित्सागर इत्युक्त्वान्तर्हिते देवे निरगच्छमहं बहिः । तण्डुला मे प्रदत्ताश्च तत्र देवोपजीविभिः ॥२०॥ ततोऽहमागतो राजंस्तदुरास्ते च मे पथि । क्षिप्रं धावन्त एवासन्मुष्यमाणा दिने दिने ॥२१॥ एवमुक्त्वा स्ववृत्तान्तं विरते शर्ववर्मणि । उदतिष्ठन्नृपः स्नातुं प्रहृष्टः सातवाहनः ॥२२॥ ततोऽहं कृतमौनत्वाद् व्यवहारबहिष्कृतः । अनिच्छन्तं समामन्त्र्य प्रणानेनैव भूपतिम् ॥२३॥ निर्गत्य नगरात्तस्माच्छिष्यद्वयसमन्वितः । तपसे निश्चितो द्रष्टुमागतो विन्ध्यवासिनीम् ॥२४॥ स्वप्नादेशेन देव्या च एष्वव प्रेषितस्ततः । विन्ध्याटवीं प्रविष्टोऽहं त्वां द्रष्टुं भीषणामिमाम् ॥२५॥ पुलिन्दवाक्यादासाद्य सार्थं कैवर्तकञ्चन । इह प्राप्तोऽहमद्राक्षं पिशाचान् सुबहूनमून ॥२६॥ अन्योन्यालापमेतेषां दूरादाकर्ण्य शिक्षिता । मया पिशाचभाषेयं मौनमोक्षस्य कारणम् ॥२७॥ उपगम्य ततश्चैतां त्वां श्रुत्वोज्जयिनीगतम् । प्रतिपालितवानस्मि यावदभ्यागतो भवान् ॥२८॥ दृष्ट्वा त्वां स्वागतं कृत्वा चतुर्भ्यां भूतभाषया । मया जातिः स्मृतेत्येष वृत्तान्तो मज्जन्मनि ॥२९॥ एवमुक्ते गुणाढ्येन काणभूतिरुवाच तम् । त्वदागमो मया ज्ञातो यथायं निशि तच्छृणु ॥३०॥ राक्षसो भूतिवर्माख्यो दिव्यदृष्टिः सखास्ति मे । गतवानस्मि चोद्यानमुज्जयिन्यां तदासवम् ॥३१॥ तत्रासौ निजशापान्तं प्रतिपृष्टो मयाब्रवीत् । दिवा नास्ति प्रभावो नस्तिष्ठ रात्रौ वदाम्यत ॥३२॥ तथति चाहं तत्रस्थः प्राप्तायां निशि सङ्गताम् । तमपृच्छं प्रसङ्गेन भूतानां हर्षकारणम् ॥३३॥ पुरा विरञ्चिप्रभवावे यदुक्तं शङ्करेण तत् । शृणु वच्मीति मामुक्त्वा भूतिवर्माथ सोऽब्रवीत् ॥३४॥