भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 139, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 139

१२ कथासरित्सागर दिवा नैषां प्रभावोऽस्ति ध्वस्तानामक॑तेजसा । यक्षरक्षःपिशाचानां तेन दृष्यन्त्यमी निशि ॥३५॥ न पूज्यन्ते सुरा यत्र न च विप्रा यथोचितम् । भुज्यते विधिना वापि तत्रत प्रभवन्ति च ॥३६॥ अमांसभक्षः साक्षी वा यत्र तत्र न यान्त्यमी । शुचीन्शूरानप्रबुद्धांश्च नाक्रामन्ति कदाचन ॥३७॥ इत्युक्त्वा मे स तत्काल मूर्तिमब्रवीत्पुनः । गच्छागतो गुणाढ्यस्त शापमोक्षस्य॒ कारणम् ॥३८॥ श्रुत्वैतवागतश्चास्मि त्वञ्च दृष्टो मया प्रभो ! कथयाम्यधुना तां ते पुष्पदन्तोदितां कथाम् ॥३९॥ किं त्वेकं कौतुकं मेऽस्ति कथ्यतां केन हेतुना । स पुष्पदन्तस्त्वं चापि माल्यवानिति विश्रुतः ॥४० ॥ काणभूतेरिति श्रुत्वा गुणाढ्यस्तमभाषत । गङ्गातीरेऽग्रहारोऽस्ति नाम्ना बहुसुवर्णकः ॥४१॥ तत्र गोविन्ददत्ताख्यो ब्राह्मणोऽभूद्बहुश्रुतः । तस्य भार्याग्निदत्ता च बभूव पतिदेवता ॥४२॥ स कालेन द्विजस्तस्यां पञ्च पुत्रानजीजनत् । ते च मूर्खा सुरूपाश्च बभूवुरभिमानिनः ॥४३॥ अथ गोविन्ददत्तस्य गृहानतिथिराययौ । विप्रो वैश्वानरो नाम वैश्वानर इवापरः ॥४४॥ गोविन्ददत्त तत्कालं गृहादपि बहिः स्थिते । सत्पुत्राणामुपागम्य कृत ऽनाभिवादनम् ॥४५॥ हासमात्रं च तैस्तस्य कृतं प्रत्यभिवादनम् । तत स कोपात्रिर्गन्तुं प्रारेभे तद्गृहाद्द्विजः ॥४६॥ आगतेनाथ गोविन्ददत्तेन स तथाविधः । रुद्ध पृष्टोऽनुनीतोऽपि जगाद द्विजोत्तमः ॥४७॥ पुत्रास्ते पतिता मूर्खास्तत्सम्पर्काद् भवानपि । तस्मान्न भोक्ष्य त्वद्गेहे प्रायश्चित्तं नु मे भवेत् ॥४८॥