भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 149, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 149

११२ कथासरित्सागर तथैव प्रकटीभूतात्प्रसन्नादिन्दुशेखरात् । त्यक्तान्यमोक्षलिप्सेन त्वद्गणत्वं मया वृतम् ॥११०॥ यत् पूजितोऽस्मि भवता स्वयमाहृतेन माल्येन दुर्गवनभूमिसमुद्भवेन । सन्माल्यवानिति भविष्यसि मे गणस्त्व- मित्यादिशच्च स विभुर्गिरिजापतिर्माम् ॥१११॥ अथ मर्त्यवपुर्विमुच्य पुण्या सहसा त्वद्गणसामहं प्रपन्नः । इति धूर्जटिना कृतः प्रसादादभिधानं मम माल्यवानीतीदम् ॥११२॥ सोऽहं गतः पुनरिहाथ मनुष्यभावं । शापेन शल्यदुहितुर्वत काणभूते ! तन् कथां हरकृतां कथयाधुना त्वं येनावयोर्भवति शापद्दोषोपशान्तिः ॥११३॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके सप्तमस्तरङ्गः

अष्टमस्तरङ्गः एव गुणाढ्यवचसा सा च सप्तकथामयी । स्वभाषया कथा दिव्या कथिता काणभूतिना ॥१॥ तथैव च गुणाढ्येन पैशाच्या भाषया तया । निबद्धा सप्तभिर्वर्षैर्ग्रन्थलक्षणि सप्त सा ॥२॥ मैतां विद्याधरा हार्थुरिति तामात्मशोणितैः । अटव्यां मध्यमाबाध्य लिखन्न स महाकविः ॥३॥ तया च श्रोतुमायातैः सिद्धविद्याधरादिभिः । निरन्तरमभूत्तत्र सवितानमिवाम्बरम् ॥४॥ गुणाढ्येन निबद्धां च तां दृष्ट्वैव महाकथाम् । जगाम मुक्तशापः सन्काणभूतिर्निजां गतिम् ॥५॥ पिशाचा येऽपि तत्रासन्नन्ये तत्सहचारिणः । तेऽपि प्रापुर्दिवं सर्वे दिव्यामाकर्ण्य तां कथाम् ॥६॥ प्रतिष्ठां प्रापणीयेयं पृथिव्यां मे बृहत्कथा । मयमर्त्योऽपि मे दत्त्वा शापान्तोक्तावुदीरितः ॥७॥ तत्कथं प्रापयाम्येनां कस्मै तावत्समर्पये । इति चाचिन्तयत्तत्र स गुणाढ्यो महाकविः ॥८॥