कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 151, कुल 876 में से
संदर्भ में पढ़ें११४ कथासरित्सागर अथैको गुणदेवाख्यो नन्दिदेवाभिधः परः । तमूचतुरुपाध्याय शिष्यावनुगतावुभौ ॥९॥ तत्काव्यस्यार्पणस्थानमेकः श्रीसातवाहनः । रसिको हि वहेत्काव्यं पुष्पामोदमिवानिलः ॥१०॥ एवमस्त्विति तौ शिष्यावन्तिकं तस्य भूपतेः । प्राहिणोत्पुस्तकं दत्वा गुणाढ्यो गुणशालिनौ ॥११॥ स्वयं च गत्वा तत्रैव प्रतिष्ठानपुराद् बहिः । कृतसङ्केत उद्याने तस्थौ देवीविनिर्मिते ॥१२॥ तच्छिष्याभ्यां च गत्वा तत्सातवाहनभूपतेः । गुणाढ्यकृतिरेषेति दर्शितं काव्यपुस्तकम् ॥१३॥ पिशाचभाषां तां श्रुत्वा तौ च दृष्ट्वा तदाकृती । विद्यामदेन सासूयः स राजन्यमभाषत ॥१४॥ प्रमाणं सप्तलक्षाणि पैशाचं नीरसं वचः । शोणितेनाक्षरन्यासो धिक्पिशाचकथामिमाम् ॥१५॥ ततः पुस्तकमादाय गत्वा ताभ्यां यथागतम् । शिष्याभ्यां तद्गुणाढ्याय यथावृत्तमकथ्यत ॥१६॥ गुणाढ्योऽपि तदाकर्ण्य सद्यः खेदवशोऽभवत् । तत्त्वज्ञेन कृतावज्ञः को नामास्तं न तप्यते ॥१७॥ सशिष्यश्च ततो गत्वा नातिदूरं शिलोच्चयम् । विविक्तरम्यभूभागमग्निकुण्डं व्यधात्पुरः ॥१८॥ तत्राग्नौ पत्रमेकैकं शिष्याभ्यां साश्रु वीक्षितः । वाचयित्वा स चिक्षेप श्रावयन्मृगपक्षिणः ॥१९॥ नरवाहनदत्तस्य चरितं शिष्ययोः कृते । ग्रन्थलक्षं कथामेकां वर्जयित्वा सदीप्सिताम् ॥२०॥ तस्मिंश्च तां कथां दिव्यां पठत्यपि दहत्यपि । परित्यक्ततृणाहाराः शृण्वन्तः साश्रुलोचनाः ॥२१॥ आसन्नभ्येत्य तत्रैव निश्चला बद्धमण्डलाः । निर्जिताः पशवः सारङ्गवराहमहिषादयः ॥२२॥ अत्रान्तरे च राजाभूदस्वस्थः सातवाहनः । दोषं चास्यावदन् वैद्या दुष्कमांसोपभोगजम् ॥२३॥