कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 167, कुल 876 में से
संदर्भ में पढ़ें१२८ कथासरित्सागर धीमानुदयनो नाम्ना राजा भावी महायशाः। भविष्यति च पुत्रोऽस्य सर्वविद्याधराधिपः ॥६९॥ इत्यन्तरिक्षाद्वभूत्सस्मिन्त्वामे सरस्वती। आदधाना मृगावत्याश्चित्तविस्मृतमुत्सवम् ॥७०॥ क्रमादुदयनः सोऽथ वावृद्धेऽस्तस्मिंस्तपोवने। अवधत निजे साध वयस्येरिव सद्गुणैः ॥७१॥ कृत्वा क्षत्रोचितान् सर्वान्संस्काराञ्जमदग्निना। व्यनीयत स विद्यासु धनुर्वेदे च धीयमान् ॥७२॥ हृष्ट्वा च स्वकरामाता तस्य स्नेहान्मृगावती। सहस्रानीकनामङ्क चकार कटक करे ॥७३॥ हरिणाक्षटने जातु भ्राम्यन्नुदयनोऽथ सः। शबरेण हठात्क्रान्तमटव्यां सर्पमैक्षत ॥७४॥ सदयं सुन्दरे तस्मिन्सर्पे स शबर च सः। उवाच मुच्यतामेष सर्पो मघवचनादिति ॥७५॥ ततः स शवरोऽवादीज्जीविकेयं मम प्रभो। कृपणोऽहं हि जीवामि भुजंगं खलयन् सदा ॥७६॥ विषन्न पक्ष्मे पूर्व मन्त्रौषधिबलादयम्। दष्टम्बश्च मया लब्धश्चिन्वतेतां महाटवीम् ॥७७॥ धृत्वत्युदयनस्त्यागी दत्त्वास्मै शबराय तम्। कटकं जननीदत्त स त सर्पममोचयत् ॥७८॥ गृहीतकटके याते शबरे पुरतो गतिम्। कृत्वा स भुजंगः प्रीतो जगादोदयनं तदा ॥७९॥ वसुनमिरिति ख्यातो ज्येष्ठो भ्रातास्मि वासुकेः। इमां वीणां गृहाण त्वं मत्तः संरक्षितास्त्वया ॥८०॥ तन्त्रीनिघोर्परम्यां च श्रुतिमागविभाजिताम्। ताम्बूलीश्च सहाम्लानमालातिलकयुक्तिभिः ॥८१॥ तद्युक्तो जमदग्नेस्तं नागोत्क्षिप्तः स धायमम्। मागादुदयनो मातुर्दृशि वयस्विवामृतम् ॥८२॥ मभ्रान्तरे स शबरोऽप्यटवीं प्राप्य पर्यटन्। भादायोदवनात्प्राप्तं कटकं तद्विक्रयवशात् ॥८३॥