कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 169, कुल 876 में से
संदर्भ में पढ़ें१६० कथासरित्सागर विक्रीणानश्च तत्तत्र राजनामाङ्कमापणे । वष्टभ्य राजपुरुषैर्निन्ये राजकुलं च सः॥८४॥ कुतस्त्वयेदं कटकं सम्प्राप्तमिति तत्र सः। राज्ञा सहस्रानीकेन स्वयं शोकादपृच्छत ॥८५॥ अथोदयाद्रौ सर्पस्य ग्रहणात्प्रभृति स्वकम्। कटकप्राप्तिवृत्तान्तं शबरः स जगाद तम् ॥८६॥ तच्छ्रुत्वा शबराद्दृष्ट्वा दयितावलयं च तम्। विचारडोलामारोहत् सहस्रानीकभूपतिः ॥८७॥ क्षीणः शापः स ते राजन्नुदयाद्रौ च सा स्थिता। जमदग्न्याश्रमे भार्या सपुत्रा ते मृगावती ॥८८॥ इति दिव्या तदा वाणी नन्दयामास तं नृपम्। विप्रयोगनिदाघार्तं वारिधारेव बर्हिणम् ॥८९॥ अथोरुकष्टाद् दीर्घे कथमपि दिनेऽस्मिन्नवसिते तमश्वाग्रं कृत्वा शबरमपरेद्युः स नृपतिः । सहस्रानीकस्तां सरभसमवाप्तुं प्रियतमां । प्रतस्थे तत्सैन्यं । सममुदयशैलाग्रमपदम् ॥९०॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके प्रथमस्तरङ्गः।
द्वितीयस्तरङ्गः गत्वाथ दूरमध्वानं राजा वसतिमग्रहीत् । दिने तस्मिंस्त कस्मिंश्चिदरण्यसरस्तटे ॥१॥ शयनीयगतः श्रान्तस्तत्र संचारमागतम्। माय सङ्गतकं नाम जगाद शनकैर्नृपः ॥२॥ कथामाख्याहि मे काञ्चिद्धृदयस्य विनोदिनीम्। मृगावतीमुखाम्भोजदर्शनोत्सवकाङ्क्षिणः ॥३॥ अथ सङ्गतकोऽवादीद्यत् किं तप्यसे वृथा। आसन्न एव देव्यास्ते क्षीणशापः समागमः ॥४॥ संयोगा विप्रयोगाश्च भवन्ति बह्वो नृणाम्। तथा चात्र कथामेकां कथयामि शृणु प्रभो ॥५॥