भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 191, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 191

[Page Header] १५० कथासरित्सागर

भगवत्युपहारत्वं यत एवासि कल्पितः। अत एव सदा वस्त्रभोजनैश्चोपचर्यसे ॥१४३॥ एकस्तु मुक्त्युपायस्ते विद्यते यदि मन्यसे। अस्त्यस्य सुन्दरी नाम शबराधिपतेः सुता ॥१४४॥ अयमर्थे सा च दृष्ट्वा त्वां जायते मदनातुरा। तां भजस्व वयस्यां मे ततः क्षेममवाप्स्यसि ॥१४५॥ तमित्युक्तो विमुक्त्यर्थी स धीवस्तस्तदन्विति ताम्। गान्धर्वविधिना गुप्तां भार्यां व्यधित सुन्दरीम् ॥१४६॥ रात्रौ रात्रौ च सा तस्य बन्धनानि व्यवारयत्। अचिराच्च सगर्भा सा सुन्दरी समपद्यत ॥१४७॥ तत्सर्वमथ तन्माता बुद्ध्वा मोचनिकामुखात्। जामातुस्तद्रहो गत्वा स्वैरं श्रीदत्तमब्रवीत् ॥१४८॥ पुत्र! श्रीचण्डनामासौ कोपनः सुन्दरीपिता। न त्वां क्षमेत तद् गच्छ विस्मर्तव्या न सुन्दरी ॥१४९॥ इत्युक्त्वा मोचितः श्वश्र्वा खड्गं श्रीचण्डहस्तगम्। सुन्दर्यै निजमावेद्य श्रीदत्तः प्रययौ ततः ॥१५०॥ विवेश बाह्यां तामेव चिन्ताक्रान्तो निजाटवीम्। मृगाङ्कवत्याः पदवीं तस्या जिज्ञासितुं पुनः ॥१५१॥ निमित्तं च शुभं दृष्ट्वा तमेवोद्देशमाययौ। यत्रास्याश्वो मृतः सोऽथ यत्र सा हारिता वधूः ॥१५२॥ तत्र चैकं ददर्शार्त्तस्तुलुब्धकं सम्मुखागतम्। दृष्ट्वा च पृष्टवांस्तस्याः प्रवृत्तिं हरिणीदृशः ॥१५३॥ किं श्रीदत्तस्त्वमित्युक्तो लुब्धकेन च तत्र सः। स एव मन्दभाग्योऽहमित्युवाच विनिश्वसन् ॥१५४॥ ततः स लुब्धकोऽवादीत्सखि वच्मि सखे! शृणु। दृष्टा सा ते मया भार्या क्रन्दन्ती त्वामितस्ततः ॥१५५॥ पृष्ट्वा ततश्च वृत्तान्तमाश्वास्य च कृपाकुरुः। निजां पल्लीमितोऽरण्याद्दीनां तां नीतवानहम् ॥१५६॥ तत्र चालोक्य तरुणान्पुलिन्दांत्सभयेन सा। मथुरानिकटं ग्रामं नीता नागम्बरुं मया ॥१५७॥