कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 213, कुल 876 में से
संदर्भ में पढ़ेंसोऽपि चण्डमहासेनस्तच्छ्रुत्वैव व्यचिन्तयत्। स तावदिह नायाति मानी वत्सेश्वरो भृशम् ॥२॥ कन्या हि तत्र न प्रेष्या भवेदेव हि लाघवम्। तस्मात् वल्लभं तं युक्त्या नृपमानायाम्यहम् ॥३॥ इति सञ्चिन्त्य सम्मन्त्र्य स राजा मन्त्रिभिः सह। अकारयत्स्वसंवृत्तं महान्तं यन्त्रहस्तिनम् ॥४॥ तं चान्तर्वीरपुरुषं कृत्वा छन्नैरधिष्ठितम्। विन्ध्याटव्यां स निदधे राजा यन्त्रमयं गजम् ॥५॥ तत्र तं चारपुरुषाः पश्यन्ति स्म विदूरतः। गजवन्धरसासक्तवत्सराजोपजीविनः ॥६॥ ते च त्वरितमागत्य वत्सराजं व्यजिज्ञपन्। देव ! दृष्टो गजोऽस्माभिरेको विन्ध्यवने भ्रमन् ॥७॥ अस्मिन्नियति भूलोके नैव योऽन्यत्र दृश्यते। वर्ष्मणा व्याप्तगगनो विन्ध्याद्रिरिव जङ्गमः ॥८॥ तत्तच्चारवचः श्रुत्वा वत्सराजो जहर्ष सः। तेभ्यः सुवर्णलक्षं च प्रददौ पारितोषिकम् ॥९॥ तं चेद् गजेन्द्रं प्राप्स्यामि प्रतिमल्लं नडागिरेः। ततश्चण्डमहासेनो वश्यो भवति मे ध्रुवम् ॥१०॥ लतां वासवदत्तां तां स स्वयं मे प्रयच्छति। इति सञ्चिन्त्यसन्न्योज्य राजा सामन्तयष्टिधाम् ॥११॥ प्रातश्च मन्त्रिवचनं व्यङ्क्त्वा गजतृष्णया। पुरस्कृत्यैव तांश्चारान्ययौ विन्ध्याटवीं प्रति ॥१२॥ प्रस्थानलग्नमस्य फल कन्यालाभः सबन्धनम्। यद्बूचुर्गणकास्तस्य तरम नैव व्यवारयत् ॥१३॥ प्राप्य विन्ध्याटवीं तस्य गजस्य लोभमोहिताः। वत्सराजः स सैन्यानि दूरादेव न्यवारयत् ॥१४॥ चारमात्रसहायस्तु वीणां घोषवतीं दधत्। निजव्यसनविस्तीर्णां तां विवेश महाटवीम् ॥१५॥ विन्ध्यस्य दक्षिणे पार्श्वे दूराच्चारैः प्रदर्शितम्। गजं मत्तगजाभासं तं ददर्श स भूपतिः ॥१६॥