भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 255, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 255

२१४ कथासरित्सागर ततो देवस्मिता दृष्ट्वा सा तां प्रावेशयत्स्वयम्। किमागता स्यादेषेति विचिन्त्य प्रेष्य चेटिकाम्॥११९॥ प्रविष्टा चाशिषं दत्त्वा कृत्वा व्याजकृतादराम्। सा तां देवस्मितां साध्वीं पापा प्रव्राजिकाब्रवीत्॥१२०॥ सदैव त्वद्दिदृक्षा मे भवत्यद्य पुनर्मया। स्वप्ने दृष्टासि तेनाहमुत्का त्वां द्रष्टुमागता॥१२१॥ भर्त्रा विनाकृता त्वां च दृष्ट्वा मे दूयते मनः। प्रियोपभोगवन्ध्ये हि विफले रूपयौबने॥१२२॥ इत्यादिभिर्वचोभिस्तां साध्वीमाश्वास्य सा चिरम्। आमन्त्र्य प्राययौ तावद् गृहं प्रव्राजिका निजम्॥१२३॥ द्वितीयेऽहनि गृहीत्वा च मरिचक्षोदनिर्भरम्। मांसखण्डं पुनः सा तद्ययौ देवस्मितागृहम्॥१२४॥ द्वारशुने ददौ तस्यै मांसखण्डं च तत्र तम्। सापि तं भक्षयामास सद्यः समरिचं शुनी॥१२५॥ ततो मरिचतोयेण तस्या दृग्भ्यामवारितम्। अश्रु प्रववृते तस्याः प्रस्रोति स्म च नासिका॥१२६॥ सापि प्रव्राजिका तस्मिन् क्षणे देवस्मितान्तिकम्। प्रविश्य तत्कृतातिथ्या प्रारभे रोदितुं शठा॥१२७॥ पृष्टा च देवस्मितया सा कृच्छ्रादेवमब्रवीत्। पुत्रि! सम्प्रति पश्यैतां बहिः प्रस्रवतीं शुनीम्॥१२८॥ एषा ह्यद्य परिज्ञाय मां जन्मान्तरसङ्गताम्। प्रवृत्ता रोदितुं तेन कृपयाश्रु ममोद्गतम्॥१२९॥ तच्छ्रुत्वा बहिरालोक्य शुनीं तां रुदतीमिव। किमेतच्चित्रमिति सा दध्यौ देवस्मिता क्षणम्॥१३०॥ प्रव्राजिकाथ सावादीत् पुत्रि पूर्वत्र जन्मनि। अहमेषा च भार्ये द्वे विप्रस्याभूव कस्यचित्॥१३१॥ स चाभवत् पतिर्दूरे देशान्तरमितस्ततः। वारं वारं प्रयाति स्म राजादेशेन दूत्यया॥१३२॥ तत्प्रवासे च दुर्मत्या स्वेच्छं पुरुषसङ्गमम्। मया भूतेन्द्रियग्रामो मोपभोगैरखण्द्यत॥१३३॥ भूतेन्द्रियानभिद्रोहो धर्मो हि परमो मतः। अतो जातिस्मरा पुत्रि! जाताहमिह जन्मनि॥१३४॥ एषा तु शीलमेवैकं ररक्षामानग्रस्तता। तेन श्वयोनौ पतिता किन्तु जातिं स्मरत्यसौ॥१३५॥