भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 309, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 309

२१८ कथासरित्सागर

ततो लग्नं विनिर्दिश्य तूर्ण योगन्धरायणः । तस्मै मगधराजाय प्रतिदूतं व्यसर्जयत् ॥६२॥ त्वदिच्छाङ्गीकृतास्माभिस्तदितः सप्तमे दिने । पद्मावतीविवाहाय वत्सेशोऽप्यागमिष्यति ॥६३॥ शीघ्रं वासवदत्तां च येनासौ विस्मरिष्यति । इति चास्मै महामन्त्री सन्दिदेश स भूभृते ॥६४॥ प्रतिदूतः स गत्वा च यथासन्दिष्टमभ्यधात् । ततो मगधराजाय स चाप्यभिननन्द तम् ॥६५॥ ततः स दुहितृस्नेहनिजच्छाभिवर्धितम् । विवाहोत्सव-सम्भारं चकार मगधेश्वरः ॥६६॥ सा चाभीष्टवरश्रुत्या मुदं पद्मावती ययौ । प्राप वासवदत्ता च तद्वार्ताश्रवणान्त्सुदम् ॥६७॥ सा मार्त्ता क्षणमागत्य तस्या वैवर्ण्यादायिनी । प्रच्छन्नवासवैरूप्यसाहाय्यनमिवार्करोत् ॥६८॥ दृप्तं मित्रीकृतं दातुनं च भर्त्तान्यया त्वयि । वसन्तकोऽतिरित्यस्याः सखीव विदधे धृतिम् ॥६९॥ अथासन्नविवाहायाः पद्मावत्या मनस्विनी । अम्लानमालातिलको दिव्यो भूयश्चकार सा ॥७०॥ ततो वत्सेश्वरस्तत्र सम्प्राप्ते सप्तमेऽहनि । ससैन्यो मन्त्रिभिः साकं परिणेतुं किलाययौ ॥७१॥ मनसापि तदुद्योगे विरष्टौ स कथं स्पृशन् । देवीं लभेय तामेवमित्याशा न भवेद्यदि ॥७२॥ प्रत्युद्ययौ च तं सद्यः सानन्दो मगधेश्वरः । प्रदानेनोत्सवं चन्द्रमुदयस्त्यमिवाम्बुधिः ॥७३॥ विवेशाथ स वत्सेशो मगधाधिपतेः पुरम् । समन्तात्पौरलोकस्य मानसं च महोत्सवः ॥७४॥ विरहक्षामवपुषं मनःसम्मोहदायिनम् । ददृशुस्तत्र नार्य्यस्तं रतिहीनमिव स्मरम् ॥७५॥ प्रविश्य मगधेशस्य वत्सेशोऽप्यथ मन्दिरम् । सभाषं पतिवत्नीभिः कौतुकागारमाम्यौ ॥७६॥