कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 341, कुल 876 में से
संदर्भ में पढ़ेंएतन्निजश्वशुरदूतवचो निशम्य वत्सेश्वरस्य हृदये सपदि प्रमोदः। देव्यां च कोऽपि ववृधे प्रणयप्रकर्षो भूयांश्च मन्त्रिवृषम प्रजयानुबन्धः॥१७०॥ ततस्त देवीभ्यां सममुचितसत्कारविधिना कृतातिथ्य दूत सरभसमनाः प्रेष्य मुदितम्। विधास्यन्नुद्योग त्वरितमथ समन्त्र्य सचिवैः स चक्रे कौशाम्बीं प्रति गमनबुद्धि नरपतिः ॥१७१॥ इति महाकवि श्रीसोमदेवभट्ट-विरचिते कथासरित्सागरे लावणक लम्बके तृतीयस्तरङ्गः।
चतुर्थस्तरङ्गः वत्सराजस्य कौशाम्बींप्रति प्रत्यावर्तनम् ततोऽ लावणकात्तस्माद्ययौ सचिवै सह। वत्सराजः स कौशाम्बीं प्रतस्थे दयितान्वितः ॥१॥ प्रसस्र च मरुद्भावैस्तस्यापूरितभूतलः । वत्सरत्नमपोद्वेलसङ्कराशिजलधिरिव ॥२॥ उपमा¹ नृपतस्तस्य गजेन्द्रस्थस्य गच्छतः। भवेद्यदि रवियर्यायाद् गगने सोदयाचलः ॥३॥ स सितेनातपत्रेण कृतच्छायो बभौ नृपः। जिताकृतज्ञः प्रीत्या सम्यमान इवेन्दुना ॥४॥ तेजस्विनः स्वकक्षाभिस्त सर्वोपरिवर्तिनम्। सामन्ता परितो भ्रमुर्भुवं ग्रहगणा इव ॥५॥ पश्चात्करेणुकारूढे देव्यौ द्वे तस्य रेजतुः। श्रीभूषावनुरागेण साक्षादनुगते इव ॥६॥
१ यत्र अद्भुतौपमालंकारः। यथा च काव्यादर्शे-यदि शुभ्रूः ! भवेत् किञ्चिद् विश्रान्त लोचनम्। ततेमुखश्रियं धत्तामित्यतावद्भुतोपमा-इति।