कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 345, कुल 876 में से
संदर्भ में पढ़ें३४ कथासरित्सागर दिष्ट्या न रुज्जिता देवी सपत्न्या सदृशीतया । इति पद्मावतीं वीक्ष्य वयस्या जगदेऽन्यया ॥२०॥ नूनं हरमुरारिभ्यां न दृष्टं रूपमेतयोः । किमन्यथा भजेतां तौ बहुमानमुमाभ्रियोः ॥२१॥ इत्यूचुरापरास्तं द्वे दृष्ट्वा देव्यौ परस्परम् । क्षिपन्त्यः प्रमदोत्फुल्ललोचनेन्दीवरस्रजः ॥२२॥ एवं वत्सेश्वरः कुर्वञ्जनतानयनोत्सवम् । स्वमन्दिरं सदेवीकः प्राविशत्कृतमङ्गलः ॥२३॥ प्रभाते याम्यसरसो याम्येरिन्दूदये सभा । तत्कालं तस्य सा कापि शोभामूद्राजवेश्मनः ॥२४॥ क्षणादपूरि सामन्तसङ्घोपायनैश्च तत् । सूर्य्यमद्भिर्बहिर्बाधेय-भूपालोपायनागमम् ॥२५॥ समान्य राजलोकं च वत्सराजः कृतोत्सवः । चित्तं सयजनस्येव विवेशान्तःपुरं ततः ॥२६॥ देव्योर्मध्यस्थितस्तत्र रतिप्रीत्योरिव स्मरः । पानादिलीलया राजा दिनशेषं निनाय सः ॥२७॥ अपरेद्युश्च तस्यैको नृपस्यास्थानवर्त्तिनः । मन्त्रिणां सन्निधौ विप्रो द्वारि चक्रन्द कश्चन ॥२८॥ गोपालककथा अद्याह्यास्मदटव्यां मे पापैर्गोपालकैः प्रभो । पुत्रस्य चरणोच्छेदो विहितः कारणं विना ॥२९॥ तच्छ्रुत्वा तत्क्षणं विप्रान्वष्टभ्यानाय्य भूपतिः । गोपालकांस्त पप्रच्छ ततस्तेऽप्येवमब्रुवन् ॥३०॥ देव ! गोपालका भूत्वा क्रीडामो विजने वयम् । तत्रैको देवसेनाख्यो मध्ये गोपालकोऽस्ति नः ॥३१॥ एकवृक्षे च सोऽटव्यामुपविष्टः शिलासने । राजा युष्माकमस्तीति बबरत्यस्माननुशास्ति च ॥३२॥ अस्मन्मध्ये च केनापि तस्याज्ञा न विलङ्घ्यते । एवं गोपालकोऽरण्ये राज्यं स कुरुते प्रभो ॥३३॥ अथ चैतस्य विप्रस्य तनयस्तेन वर्त्मना । गच्छन् गोपालराजस्य प्रणामं तस्य नाकरोत् ॥३४॥ मा गास्त्वमप्रणम्येति राजादेशेन जल्पतः । अस्मान्विधूय सोऽप्यासीच्छासितोऽपि हसन्वटुः ॥३५॥