भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 37, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 37

ततो ददृशतुस्तञ्च ज्वलल्लिङ्गं महत्पुरः। तस्यान्तमीक्षितुं प्रायादेक ऊर्ध्वमथोऽपरः॥२८॥ अलभ्यन्तो सपोभिर्मां तोषयामासतुश्च तौ। आविर्भूय मया चोक्तौ वरः कोऽप्यर्थ्यतामिति॥२९॥ तच्छ्रुत्वाब्रवीद् ब्रह्मा पुत्रो मेऽस्तु भवानिति। अपूज्यस्तेन जातोऽसावत्यारोहेण निन्दितः॥३०॥ ततो नारायणो देवः स वरं मामयाचत। भूयासं तव शुश्रूषापरोऽहं भगवन्निति॥३१॥ अतः शरीरीभूतोऽसौ मम जातस्त्वदात्मना। यो हि नारायणः सा त्वं शक्तिः शक्तिमतो मम॥३२॥ किं च मे पूर्वजायात्वमित्युक्तवसि शङ्करे। कथं ते पूर्वजायाऽहमिति बव्रे स्म पार्वती॥३३॥

पार्वत्याः पूर्वजन्मकथा

प्रत्युवाच ततो भर्गः पुरा दक्षप्रजापतेः। देवि! त्वं च तथान्याश्च बह्व्योऽजायन्त कन्यकाः॥३४॥ स मह्यं भवतीं प्रादाद्धर्मादिभ्यो पराश्च ताः। यज्ञे कदाचिदाहूतास्तेन जामातरोऽखिलाः॥३५॥ वर्जितस्त्वहमन्वंकस्ततोऽपृच्छ्यत स त्वया। किं न भर्त्ता ममाहूतस्त्वया तातोच्यतामिति॥३६॥ कपालमाली भर्त्ता ते कथमाहूयतां मखे। इत्युवाच गिरं सोऽथ त्वत्कर्ण-विष-सूचिकाम्॥३७॥ पापाद्यमस्माज्जातेन किं देहेन मयामुना। इति कोपात्परित्यक्तं शरीरं तत्प्रिये! त्वया॥३८॥ स च दक्षमरूस्तेन मन्युना नाशितो मया। ततो जाता हिमाद्रेस्त्वमम्बेक्ष्वङ्कुररूपा यथा॥३९॥ अथ स्मर तुषाराद्रिं तपोऽर्थेमहमागतः। पिता त्वा च नियुङ्क्ते स्म शुश्रूषायै ममातिथेः॥४०॥ तारकान्तक-सत्पुत्र-प्राप्तये प्रहितः सुरैः। सम्ध्याशङ्काशोऽविध्यन्मां तत्र दग्धो मनोभवः॥४१॥