भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 421, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 421

५८ कथासरित्सागर तत्र सन्ध्याग्निकार्यादि पठित्वा द्वारि भूपतेः। ययावन्नाम सङ्ख्याप्य फलबूतिरिति स्वकम् ॥४०॥ सोऽवादीद् भद्रकृद् भद्रमभद्रं चाप्यभद्रकृत्। प्राप्नुयादिति लोकस्य कौतुकोत्पादकं वचः ॥४१॥ मुहुश्च तद्ब्रुवन्तं स तत्रादित्यप्रभो नृपः। बुद्ध्वा प्रवेशयामास फलबूतिं कुतूहली ॥४२॥ सोऽपि प्रवेद्य तस्याग्रे तदेव मुहुरब्रवीत्। जहास तेन स नृपस्तथा पार्श्वस्थितैः सह ॥४३॥ समान्तश्च वस्त्राणि दत्त्वा चाभरणानि सः। ग्रामान् राजा ददौ तस्मै न तोषो महतां मृषा ॥४४॥ एवं च तत्क्षणं प्राप गुह्यकानुग्रहेण सः। फलबूतिः कृशो भूत्वा विभूतिं भूरिदोषिताम् ॥४५॥ सदा तदेव च वदन् पूर्वोक्तं प्राप भूपतेः। बालक्रम्यमीश्वराणां हि विनोदरसिकं मनः ॥४६॥ क्रमाद्राजगृहे चास्मिन् राष्ट्रम्वन्तःपुरेषु च। राजप्रिय इति प्रीतिं बहुमानामवाप सः ॥४७॥ कदाचिच्च सोऽन्यया कृतकाटङ्कभागसः। आदित्यप्रभभूपाल सहसान्तःपुरं ययौ ॥४८॥ द्वाःस्थसम्भ्रमसाशङ्क प्रविश्यैव ददर्श सः। देवी देवासमम्यर्चा नाम्ना कुवलयावतीम् ॥४९॥ दिगम्बरामुक्तकेशीं निमीलितविलोचनाम्। स्फुरत्सिन्दूरतिलकां जपप्रस्फुटिताधरम् ॥५०॥ विविधवर्णकन्यस्तमहामण्डलमध्यगाम् । अमृक्सुरामहामांसकल्पितोग्रबलिक्रियाम् ॥५१॥ साऽपि प्रविष्टे नृपतौ सम्भ्रमाकम्पितांगुशः। तेन पृष्टा क्षणाद्वस्त्रमवोचद्याचिताभया ॥५२॥ तदेवोदयताभाप कृतवत्यस्मि पूजनम्। अत्र चागमवृत्तान्तं सिद्धिं च शृणु मे प्रभो ! ॥५३॥ कुवलयमालाकल्पिता वार्ता पुराहं पितृवेश्मस्था कन्या मधुमहोत्सवे। एवमुक्त्वा वयस्याभिः समत्प्रमोदानवर्तिनी ॥५४॥ अस्तीह प्रमदोद्याने तरुमण्डलमध्यगः। दृष्टप्रभाबो वरदो देवदेवो विनायकः ॥५५॥