भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 425, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 425

१८४ कथासरित्सागर अनुमेने च कामस्य जन्म पत्नि देहिनाम्। सङ्गविच्छेङ्करस्यार्थममूर्त्संन्यैव तद्गिरा ॥७०॥ ददौ च निजचित्तेऽपि सोऽवकाशं मनोभुवः । तेन तुष्टो ययौ धाता मुदं पाप च पार्वती ॥७१॥ ततो यातेषु दिवसेष्वेकदा रहसि स्थितः । सिषेवे सुरतक्रीडामुमया सह शङ्करः ॥७२॥ कुमारसम्भवकथा यदा नाभूद्रतस्तोष्य गतष्वब्दशतेष्वपि । तदा तदुपमर्देन चकम्पे भुवनत्रयम् ॥७३॥ ततो जगन्नाशभयाद्रतविघ्नाय धूर्जतेः । वह्निं स्मरन्ति स्म सुराः पितामहनिदेशतः ॥७४॥ सोऽप्यग्निः स्मृतमात्रः सन्नभ्युपेत्य मदनान्तकम्। मत्वा पलाय्य तैर्भ्यः प्रविवेश जलान्तरम् ॥७५॥ तत्तेजोदह्यमानाश्च तत्र भेका दिवौकसाम् । विचिन्वतां शशंसुस्तमग्निमन्तर्जलस्थितम् ॥७६॥ ततस्ताननभिव्यक्तवाचः शापेन तत्क्षणम् । मकान्कृत्वा तिरोभूय भूयोऽग्निमन्वर ययौ ॥७७॥ तत्र तं कोटरान्तस्थं देवाः शम्बूकरूपिणम् । प्रापुगशकाख्यातं स कयां दर्शनं ददौ ॥७८॥ कृत्वा जिह्वाविपर्यास शापेन शुकदन्तिनाम् । प्रविपेदे च देवानां स कायं तैः कृतस्तुतिः ॥७९॥ गत्वा च स्वोष्मणा सोऽग्निनिवार्य सुरताच्छिवम् । पापभीरया प्रणम्यास्र देवकार्यं व्यबवयत् ॥८०॥ शर्वोऽप्यारूढवेगोऽसौ तस्मिंस्वीयं स्वभावधे । तद्वि धारयितुं शक्तो न वह्निर्नाम्बिकापि वा ॥८१॥ न मया तनयस्त्वत्तः सम्प्राप्त इति भाविनीम् । खेदकोपाकुलां देवीमित्युवाच ततो हरः ॥८२॥ विघ्नोऽत्र तव जातोऽयं विना विघ्नेशपूजनम् । तदद्यम येनाशु बहुलो नो जनिता सुतः ॥८३॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 425, कुल 876 में से · BharatKosha