कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 459, कुल 876 में से
संदर्भ में पढ़ें४१६ कथासरित्सागर समाश्वस्ता च सा युक्त्या कथाञ्चाप परीक्षतुम्। क्षणान्तर निजगदे देव्या वासवदत्तया ॥५२॥ भो ब्राह्मणि ! कथा काचित्त्वया मः कथ्यतामिति । सम्परक्षा सा तथेत्युक्त्वा कथां वक्तु प्रचक्रम ॥५३॥ राजः देवदत्तस्य तद्भार्यायाश्च कथा पुराभूज्जयदत्ताख्यः सामान्य कोऽपि भूपतिः । देवदत्ताभिधानश्च पुत्रस्तस्योदपद्यत ॥५४॥ यौवनस्थस्य तस्याथ विवाहं तनयस्य सः । विधातुमिच्छन्नृपतिर्मेक्षमानित्त्यचिन्तयत् ॥५५॥ वेश्येव बलवद्भोग्या राजश्रीरतिचञ्चला । वणिजां तु कुलस्त्रीव स्थिरा लक्ष्मीरनन्यगा ॥५६॥ तन्माद् विवाहं पुत्रस्य करोमि वणिजां गृहात् । राज्येऽस्य बहुदायादे यन नापद् भविष्यति ॥५७॥ इति निश्चित्य पुत्रस्य कृते वव्रे स भूपतिः । वणिजो वसुदत्तस्य कन्यां पाटलिपुत्रकात् ॥५८॥ वसुदत्तोऽपि स ददौ श्लाघ्यसम्बन्धवाञ्छया । दूरदेशान्तरञ्ज्यस्मै राजपुत्राय तां सुताम् ॥५९॥ पूरयामास च तथा रत्नजर्मास्तर स तम्। मगलद्धहुमानोऽस्य यया स्वपितृवैभवं ॥६०॥ अवाप्ताढ्यवणिकपुत्रीसहितेनाथ तेन सः । तनयेन समं तस्थौ जयदत्तनृप सुखम् ॥६१॥ एकदा तत्र चागत्य सोत्क सम्बन्धिसद्मनि । स वणिग्वसुदत्तस्तां निनाय स्वगृहं सुताम् ॥६२॥ ततोऽकस्मात्स नृपतिर्जयदत्तो दिवं ययौ । उपभूय गोत्रजैस्तस्य तच्च राज्यमधिष्ठितम् ॥६३॥ तद्भीत्या तस्य तनयो जनन्या निजया मिलि । देवदत्तस्तु नीतोऽभूदन्यदेशमरक्षितः ॥६४॥ सत्राहु राजपुत्रं तं माता दुःखितमानसा । देवोऽस्ति चक्रवर्ती न प्रभुः पूर्वदिगीश्वरः ॥६५॥