भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 463, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 463

४२० कथासरित्सागर इत्यालोच्य स तां भार्यामुपेक्षत सकामुकाम् । मत्वा गुरु भिगोप्ये हि चेतसि स्त्रीत्वम् कियत् ॥८१॥ तत्कालं च रतावेगवशात्तस्याः किलापतत् । वणिक्सुतायाः श्रवणात् समुक्तानयं विभूषणम् ॥८२॥ तच्च सा न ददर्शैव सुरतान्ते च सत्वरा । ययौ यथागतं गेहमापुंश्च्योपपति स्ततः ॥८३॥ तस्मिन्नपि गते क्वापि द्रुतं प्रच्छन्नकामुके । स राजपुत्रो दृष्ट्वा तद्रत्नमाभरणमग्रहीत् ॥८४॥ स्फुरद्रत्नशिखाजाल भान्त्रा मोहतमोपहम् । हस्तदीपमिव दत्तं प्रनष्टस्त्रीयवेषणे ॥८५॥ महार्हं च तदालोक्य राजपुत्रः स तत्क्षणम् । निर्गत्य सिद्धकार्यः सन्कान्यकुब्जं ततो ययौ ॥८६॥ तन्न बन्धाय दत्त्वा तत्स्वर्गसक्षेण भूषणम् । क्रीत्वा हस्त्यश्वमगमत्स पार्श्वं चक्रवर्तिनः ॥८७॥ तद्दत्तेन बले साकमत्य हत्वा रिपून् रणे । प्राप तत्पैतृकं राज्यं कृती मात्रामिनन्दितः ॥८८॥ तन्न बन्धाद् विनिर्मोक्ष्य भूषणं स्वश्वशुरान्तिकम् । प्राहिणोत् प्रकटीकर्त्तुं रहस्यं तदधङ्कितम् ॥८९॥ सोऽपि तच्छ्वशुरो दृष्ट्वा स्वसुताकर्णभूषणम् । तत्तमोपागतं तस्मै सम्भ्रान्तं समदर्शयत् ॥९०॥ सापि पूर्वपरिभ्रष्टं चारित्रमिव वीक्ष्य तत् । बुद्ध्वा च भर्त्रा प्रहितं व्याकुलञ्च समस्मरत् ॥९१॥ इव मे पतिन तस्यां रात्रौ सत्रगृहान्तरे । यस्यां सत्र स्थितो दृष्टः स कोऽपि पथिको मया ॥९२॥ तन्नूनं सोऽत्र भर्त्ता मे धीमन्विज्ञामयाययौ । मया तु न म विज्ञातस्तनेदं प्रापि भूषणम् ॥९३॥ इत्येवं धिग्तयस्त्यान्यं पुर्नयव्यक्तिविह्वलम् । वणिक्सुताया हृदयं तस्याः कातरमस्फुटत् ॥९४॥ ततस्तस्या रहस्यज्ञां पृष्ट्वा चटीं स्वयुक्तिभिः । तत्पिता स वणिग्बुद्ध्या तत्त्वं तत्पात्र तज्जुदुपम् ॥९५॥