कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 505, कुल 876 में से
संदर्भ में पढ़ें४६२ कथासरित्सागर ततोऽप्योव्यसमालाप्रचन्दद्विद्याधराधिपम् बुद्धवा तं भक्षितं मोहाद् गरुत्मानभ्यतप्यत ॥२३८॥ अहो बत मूढस्य पापमापतितं मम । किं वा सुलभपापा हि भवन्त्युन्मार्गवृत्तयः ॥२३९॥ श्लाघ्यस्त्वय महात्मैष परार्थप्राणदायिना । ममेति मोहकृद्वक्ष येन विश्वमधः कृतम् ॥२४०॥ इति तं चिन्तयन्तं च गरुडं पापशुद्धये । वह्निं विविक्षुं जीमूतवाहनोऽथ जगाद स ॥२४१॥ पक्षिन्द्र किं विषण्णोऽसि सत्यं पापाद् बिभेषि चेत् । सन्दिदानीं न भूयस्ते भक्ष्याहीमे भुजङ्गमाः ॥२४२॥ कार्यश्चानुशयस्तेषु पूर्वभक्तेषु भोगिषु । एषोऽत्र हि प्रतीकारो वृथान्यच्चिन्तितं तव ॥२४३॥ इत्युक्तस्तेन स प्रीतस्ताख्यो भूतानुकम्पिना । तथेति प्रतिपेदे तद्वाक्यं तस्य गुरोरिव ॥२४४॥ ययौ चामृतमानेतुं नाकाञ्जीवयितुं जवात् । क्षताङ्गं तत्र तं चाप्यानस्थिशेषानहीनपि ॥२४५॥ ततश्च साक्षादागत्य देव्या सिक्तोऽमृतेन स । जीमूतवाहनो गौर्या तद्भार्याभक्तितुष्टया ॥२४६॥ तेनाधिकतरोद्भूतकान्तिर्ग्व्यङ्गानि जज्ञिरे । तस्य सानन्दगीर्वाणदुन्दुभिध्वनिभि सह ॥२४७॥ स्वस्थोत्थितं ततस्तस्मिन्नानीय गरुडोऽपि तत् । कृत्स्ने बेलातटेऽप्यथ ववर्षामृतमम्बरात् ॥२४८॥ तेन सर्वे समुत्तस्थुर्जीवन्तस्तत्र पन्नगाः । बभौ तच्च तदा भूरिभुजङ्गकुलसङ्कुलम् ॥२४९॥ बेलावनं विनिर्मुक्तबैनतेयभय तत । पातालमिव जीमूतवाहनालोकनागतम् ॥२५० ॥ ततोऽक्षयेण देहेन यशसा च विराजितम् । बुद्ध्वाभ्यनन्दत् बन्धुजनो जीमूतवाहनम् ॥२५१॥ ननन्द तस्य भार्या च सन्नातिः पितरौ तथा । को न प्रहृष्येद् दृष्टेन सुसत्त्वपरिघातिना ॥२५२॥