भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 513, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 513

४०० कथासरित्सागर तस्याऽभवच्च विकृता वपुषीवाशयेऽप्यरम्। ख्याता कलहकारीति नाम्नान्वर्थेन गेहिनी ॥३३॥ स सम्यक् सततं भूरि राजतो द्यूततस्तथा। प्राप्य प्राप्य धनं धीरः सर्वमेव समर्पयत् ॥३४॥ सा तु तस्य समुत्पन्नपुत्रत्रययुता शठा। तथापि क्षणमप्येकं न तस्थौ कलहं विना ॥३५॥ बहिः पिवसि भुङ्क्षे च नैव किञ्चिद्ददासि न । इत्याटन्ती ससूता सा तं नित्यमतापयत् ॥३६॥ प्रसाध्यमानाप्याहारपानवस्त्रैरहर्निशम् । दुरन्ता भोगतृष्णेव भृशं जज्वल तस्य सा ॥३७॥ ततः श्रमण तन्मुषितस्त्यक्त्वैव तद्गृहम्। स विन्ध्यवासिनीं द्रष्टुमागात्सिंहपराक्रमः ॥३८॥ सा च स्वप्ने निराहारस्थितं देवी समाविशत् । उत्तिष्ठ पुत्र तामद्य गच्छ वाराणसीं पुरीम् ॥३९॥ तत्र सर्वमहानेको योऽस्ति न्यग्रोधपादपः । तन्मूलात् खन्यमानाच्च स्वं निधिमवाप्स्यसि ॥४०॥ तन्मध्याल्लप्स्यसे चैकं नभःखण्डमिव च्युतम् । पात्रं गरुडमाणिक्यमयं निस्त्रिंशन्निर्मलम् ॥४१॥ तत्रापिताक्षो द्रक्ष्यस्यन्तः प्रतिमितामिव । सर्वस्य जन्तोः प्राग्जातिं या स्याज्जिज्ञासिता तव ॥४२॥ तेनैव वटवा भार्याया पूर्वजातिं तथाऽऽत्मनः । अवाप्ताथ सुखी तत्र गतसवो निवत्स्यसि ॥४३॥ एवमुक्तश्च देव्या स प्रबुद्धः कृतपारणः । वाराणसीं प्रति प्रायात्प्रातः सिंहपराक्रमः ॥४४॥ गत्वा च तां पुरीं प्राप्य तस्मान्न्यग्रोधमूलतः । खनं निधानं तन्मध्यात् पात्रं मणिमयं महत् ॥४५॥ अपश्यच्चात्र जिज्ञासुः पात्रे पूर्वं च जन्मनि । घोरामृक्षीं स्वभार्यां तामात्मानं च मृगाधिपम् ॥४६॥ पूर्वजातिमहावैरवासनानिच्छल ततः । बुद्ध्वा भार्यारमनोद्रूपं गेहमोहो मुमोष सः ॥४७॥