कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 547, कुल 876 में से
संदर्भ में पढ़ें५ कथासरित्सागर अन्तरा च तदुद्घाट्य तस्तैव्याभार्धदर्शिते । जहाराभरणैस्तस्य धर्म्मैरिव पक्ष्मोर्त्तनम् ॥ १३४ ॥ विश्वस्तं च ततस्तस्मिन्पुरोधसि चकार सः । मान्द्यमल्पतराहारकृशीकृततनूर्मुषा ॥ १३५ ॥ याते कतिपयाह्वं च तं शय्योपान्तवर्त्तिनम् । पुरोहितं स वक्ति स्म धूर्त्तराजोऽल्पया गिरा¹ ॥ १३६ ॥ मम तावच्छरीरेऽस्मिन्वर्तते विषमा दशा । तद्विप्रवर ! कञ्चित्त्वं ब्राह्मणोत्तममानय ॥ १३७ ॥ यस्मै दास्यामि सर्वस्वमिहामुत्र च शर्मणे । अस्थिरे जीवित ह्यास्था का धनेषु मनस्विनः ॥ १३८ ॥ इत्युक्तः स पुरोधाश्च तेन दानोपजीवकः । एवं करोमीत्याह स्म सोऽपतच्चास्य पादयोः ॥ १३९ ॥ ततः स ब्राह्मणं यं यमानिनाय पुरोहितः । विक्षेपच्छात्रिमात्तं तं श्रद्दधे न स माधवः ॥ १४० ॥ तद्बुद्ध्वा तस्य पार्श्वस्थो धूर्त्त एकोऽब्रवीदिदम् । न तावदस्मै सामान्यो विप्रः प्रायेण रोचते ॥ १४१ ॥ तद्य एष शिवो नाम शिप्रातीरे महातपाः । स्थितः सम्प्रति मात्यस्य न वेत्यसन्निरूप्यताम् ॥ १४२ ॥ सच्छ्रुत्वा माधवोऽवादीत् कृतार्थस्तं पुरोहितम् । हन्त ! प्रसीदानय तं विप्रो मान्यो हि तापसः ॥ १४३ ॥ इत्युक्तस्तेन च ययौ स शिवस्यान्तिकं ततः । पुरोधास्तमपश्यच्च रचितध्याननिश्चलम् ॥ १४४ ॥ उपाविशच्च तस्याग्रे ततः कृत्वा प्रदक्षिणम् । तत्क्षणं सोऽपि धूर्त्तोऽभूच्छनैरून्मीलितेक्षणः ॥ १४५ ॥ ततः प्रणम्य तं प्राज्ञः स उवाच पुरोहितः । न चत्कुप्यसि तत्किञ्चित्प्रभो विज्ञापयाम्यहम् ॥ १४६ ॥ तन्निशम्य च तेनोष्ठपुटोन्नमनसञ्ज्ञया । अनुज्ञातं शिवेनैव तमवादीत्पुरोहितः ॥ १४७॥ १ दुर्बलत्वात् मन्दस्वरेण संक्षेपेण वा।