भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 549, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 549

५२ कथासरित्सागर

इह स्थितो वणिग्भार्यो गजपुत्रो महाधनः। माधवस्य स चास्वस्थः सर्वस्वं दातुमुद्यतः ॥१४८॥ मन्यसे यदि तत्तुभ्यं स सर्वं तत्प्रयच्छति। नानानर्घमहारत्नमयालंकरणोज्ज्वलम् ॥१४९॥ तच्छ्रुत्वा स शनैर्मुग्धस्मीन किल शिवोऽब्रवीत्। ब्रह्मन् ! भिक्षाशनस्यार्थे कोऽर्थो मे ब्रह्मचारिणः ॥१५० ॥ ततः पुरोहितोऽप्येवं स तं पुनरभाषत। भव वादीन्महाब्रह्मन् ! किं न वेत्स्याधमक्रमम् ॥१५१॥ कृतदारो गृहे कुर्वन्देवपित्रतिथिक्रियाः। धर्मस्त्रिवर्गं प्राप्नोति गृही ह्याश्रमिणां वरः ॥१५२॥ ततः सोऽपि शिवोऽवादीत् कुतो मे दारसङ्ग्रहः। नाह्याहं परिणेष्यामि कुलाद्यावृतावृतास् ॥१५३॥ तच्छ्रुत्वा सुक्षमोम्यं च मत्वा तस्य तथा धनम्। स प्राप्तावसरो लुब्धः पुरोधस्तमभाषत ॥१५४॥ अस्ति सर्हि सुता कन्या जिनस्वामिनीति मे। अतिरूपवती सा च तां च तुभ्यं ददाम्यहम् ॥१५५॥ यच्च प्रतिग्रहधनं तस्मात् प्राप्नोषि माधवात्। तदहं तव रक्षामि त्वम्भाजस्व गृहाश्रमम् ॥१५६॥ इत्याकर्ण्य स सम्प्रन्नयथेष्टार्थः शिवोऽब्रवीत्। ब्रह्मन् प्रहस्तवाय चरात्करोमि वचस्तव ॥१५७॥ हेमरत्नस्वरूपे तु मुग्ध एवास्मि तापसः। त्वद्वचांस्यव प्रवर्त्तेऽहं यथा वेत्सि तथा कुरु ॥१५८॥ एतच्छिववचः श्रुत्वा परितुष्टस्तथेति तम्। मूढो निनाय गेहं स्वं सबैव स पुरोहितः ॥१५९॥ सन्निवेश्य च तत्रैनं शिवाख्यमशिवं ततः। प्रद्यावृतो धादावैनन्माधवायाभिसन्दधे ॥१६० ॥ तदैव च ददौ तस्मै युतां कलशविवर्णिताम्। निजां शिवाय सन्न्यसिमिव मूढत्वहारिताम्१ ॥१६१॥


१ स्वमूर्खतया अपहारितामिति भावः।

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 549, कुल 876 में से · BharatKosha