भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 551, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 551

कृत्तोद्वाहं तृतीयेऽह्नि प्रतिगृह्णन्ते न सम्। निनाय व्याजमन्दस्य¹ माधवस्य ततोऽन्तिकम् ॥१६२॥ अतथ्यैतपसं वन्दे स्वामित्यवितथं वदन्। माधवोऽप्यपतत्तस्य शिवस्योत्थाय पादयोः ॥१६३॥ ददौ च तस्य विधिवत् कोषागारादाहृतम्। भूरिकृत्रिममाणिक्यमयाभरणभाण्डकम् ॥१६४॥ शिवोऽपि प्रतिगृह्यैतत्तस्य हस्ते पुरोधसः। नाहं वेद्मि त्वमेवैतद् वेत्सीत्युक्त्वा समर्पयत् ॥१६५॥ अङ्गीकृतमिदं पूर्वं मया चिन्ता तवात्र का। इत्युक्त्वा सञ्च जग्राह तत्क्षणं स पुरोहितः ॥१६६॥ कृतातिथिं सतो याते स्ववधूवासकं शिवे। नीत्वा स स्थापयामास सन्निजे कोषवेश्मनि ॥१६७॥ माधवोऽपि तदन्यद्युर्मान्याव्याजं शनैस्त्यजन्। रोगोपशान्तिं वक्ति स्म महादानप्रभावतः ॥१६८॥ त्वया धर्मसहायेन समुत्तीर्णोऽस्म्यपापतः। इति शान्तिकमायान्तं प्रशशंस पुरोहितम् ॥१६९॥ एतत्प्रभावादेतन्मे शरीरमिति कीर्तयन्। प्रकाशमद धक्त च शिवेन सह मित्राम् ॥१७०॥ शिवोऽपि यातेषु दिनेष्ववादीत्तं पुरोहितम्। एवमेव भवद्गेहे भोक्ष्यते न स्त्रियामया ॥१७१॥ तर्हि त्वमेव मूल्येन गृह्णास्याभरणं न सत्। महार्हमिति वेन्मूल्यं यथासम्भावि देहि मे ॥१७२॥ तच्छ्रुत्वा तन्नधं च मत्वा तन्निष्क्रयं ददौ। तन्नति तस्म सर्वस्वं शिवाय स पुरोहितः ॥१७३॥ तदद्य च स्वहस्तन जीवं रूप्यमकारयत्। स्वयं बाष्पकरोत् शुद्धवा तच्च स्वधनाधिकम् ॥१७४॥ अन्योऽयल्लिम्पितं हस्ते गृहीत्वा स पुरोहितः। पृष्टगामीत्युपक्रमोऽपि शिवो भेजे गृहस्थितिम् ॥१७५॥


१ मुधा रोप्याभ्यसं कृतवतः।