कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 553, कुल 876 में से
संदर्भ में पढ़ें५६ कथासरित्सागर ततश्च स शिवः सोऽपि माधवः सङ्गतावुभौ। पुरोहितार्थान् भुञ्जानौ यथेच्छं तत्र तस्थतुः ॥१७६॥ गते काले च मूल्यार्थी स पुरोधाः किलापणम्। ततोऽलङ्कारमादाय विक्रेतुं कटकं ययौ ॥१७७॥ तत्रतद्रत्नतत्त्वज्ञाः परीक्ष्य वणिजोऽब्रुवन्। अहो कस्यास्ति विज्ञानं यनैतत्कृत्रिमं कृतम् ॥१७८॥ काचस्फटिकखण्डा हि नाना रागोपरञ्जिताः। रीतिबद्धा१ इमे नैते मणयो न च काञ्चनम् ॥१७९॥ तच्छ्रुत्वा विह्वलो गत्वा स पुरोधास्तथैव सन्। आनीयाभरणं गेहात् कृत्स्नं तेषामदर्शयत् ॥१८०॥ ते दृष्ट्वा तत्तदेवाच्य सर्वं कृत्रिममेव तत्। ऊचिरे च स तच्छ्रुत्वा वज्राहत इवाभवत् ॥१८१॥ ततश्च गत्वा तत्कालं स मूढः शिवमभ्यधात्। गृहाण स्वानलङ्कारांस्त्वं देहि निजं धनम् ॥१८२॥ कुतो ममाद्यापि धनं तदद्ययावद् गृहे मया। कालेन भुक्तमिति तं शिवोऽपि प्रत्यभाषत ॥१८३॥ ततो विवदमानौ तौ पार्श्वावस्थितमाधवम्। पुरोधाश्च शिवश्चोभौ राजानमुपजग्मतुः ॥१८४॥ काचस्फटिकयोः खण्डै रीतिबद्धैः सुरञ्जितैः। रचितं देव तत्रेण व्याजात्तङ्करणं महत् ॥१८५॥ शिवेन मम सर्वस्वमजानतस्य भक्षितम्। इति विज्ञापयामास नृपतिं स पुरोहितः ॥१८६॥ ततः शिवोऽब्रवीद्राजन्ना धाव्यास्रापसोऽभवम्। अनेनैव तदभ्यर्णे प्राहितोऽहं प्रतिग्रहम् ॥१८७॥ तदैव भाषितं चास्य मुग्धेनापि सता मया। रत्नादिविद्यानभिज्ञस्य प्रमाणं मे भवानिति ॥१८८॥ अहं स्थितस्त्वथानेति प्रत्ययश्चात्र नृप त्वयि। प्रतिगृह्य च तत्सर्वं हस्तेऽस्यैव मयार्पितम् ॥१८९॥ १ रीतिः पित्तलम् तस्मिन् बद्धाः - जडिताः।