कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 591, कुल 876 में से
संदर्भ में पढ़ें५४४ कथासरित्सागर प्राप्ताम्बुनूपुरस्तस्मात्स पुराभिययौ ततः। अशोकदत्तो वचसा नियम्यागमनं पुनः॥२१३॥ तया स्वयञ्च चाकाशपथेन पुरमेव सम्। श्मशानं प्रापितः सोऽभून्निजसिद्धिप्रभावतः॥२१४॥ तन्मूले च तत्रैव स्थित्वा सा स ततोऽब्रवीत्। सदा कृष्णचतुर्दश्यामिक्ष रात्रावुपम्यहम्॥२१५॥ तस्यान्निशि च भूयोऽपि त्वमप्यसि यदा यदा। तदा तदा वटतरोर्मूलात् प्राप्स्यसि मामितः॥२१६॥ एतच्छ्रुत्वा तथेत्युक्त्वा सामामन्त्र्य निशाचरीम्। अशोकदत्त स ततो ययौ तावत्पितुर्गृहम्॥२१७॥ कनीयः सुतविश्लेपदुःसहगुर्व्यथायिना। तादृशा तन्नवासेन पितरौ तत्र दुःखितौ॥२१८॥ अतर्कितागतो यावदानन्दयति तत्क्षणात्। तावत् स बुद्ध्वा श्वशुरस्तम्भावास्याययौ नृपः॥२१९॥ स तं साहसिकस्पर्शभीतेरिव सकण्टकैः। अङ्गैः प्रणतमालिङ्ग्य मुमुदे भूपतिश्चिरम्॥२२०॥ ततस्तेन समं राज्ञा विवेश नृपमन्दिरम्। अशोकदत्त स तदा प्रमोदो मूर्तिमानिव॥२२१॥ ददौ राज्ञे स संयुक्तं तद्दिव्यं नूपुरद्वयम्। कुर्व्वन्निव सवृवीर्य्यस्तुतिं झणझणारवैः॥२२२॥ अर्पयामास तच्चास्मै कान्तं कनकपङ्कजम्। रक्षःकोषश्रियः हस्ताल्लीलाम्बुजमिवोद्धृतम्॥२२३॥ पृष्टोऽथ कौतुकात्तन राज्ञा देवीयुतेन सः। अवर्णयद्यथावृत्तं स्वं कर्णानन्ददायि तत्॥२२४॥ विचित्रचरितोल्लेखचमत्कारितचेतनम्। प्राप्यते किं यशः क्षुद्रमनङ्गीकृत्य साहसम्॥२२५॥ एवं वदंस्ततस्तेन जामाता कृतकृत्यताम्। मेने स राजा देवी च प्राप्तनूपुरयुग्मका॥२२६॥ उत्सवातोद्यनिर्ह्रादि तदा राजगृहं च तत्। अशोकदत्तस्य गुणानुद्गायदिव निर्भरम्॥२२७॥