भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 607, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 607

५५६ कथासरित्सागर

इति रहसि निशम्य विष्णुदत्तात् सरसकथाप्रकरं स शक्तिदेवः। भुवि कनकपुरीवलोकनेऽपी धृतिमवलम्ब्य निनाय च त्रियामाम् ॥१९८॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुरदारिका लम्बके द्वितीयस्तरङ्गः।

तृतीयस्तरङ्गः शक्तिदेवस्य कनकपुरीं प्रति प्रस्थानम् ततस्तत्रोत्स्यरुद्वीपे प्रभाते तं मठस्थितम्। शक्तिदेवं स दाशेन्द्रं सत्यव्रत उपाययौ ॥१॥ स च प्राक्प्रतिपन्नं सङ्घपेटयनमभाषत। प्रह्लांस्त्वदिष्टसिद्धयर्थमुपायश्चिन्तितो मया ॥२॥ अस्ति द्वीपवरं मध्ये रत्नकूटाख्यमम्बुधेः। कृतप्रतिष्ठस्तत्रास्ते भगवान्हरिरम्बिनः॥३॥ आषाढशुक्लद्वादश्यां तत्र यात्रोत्सवे मुदा। आयान्ति सर्वद्वीपेभ्यः पूजाय यत्नतो जनाः ॥४॥ तत्र ज्ञायत कनकपुरी सा जातुचित् पुरी। तदेहि तत्र गच्छावः प्रत्यासन्ना हि सा तिथिः ॥५॥ इति सत्यव्रतेनोक्तं शक्तिदेवस्तथेति सः। जग्राह हृष्टं पाथेयं विष्णुदत्तोपकल्पितम् ॥६॥ ततो वहनमारुह्य स सत्यव्रतढौकितम्। तेनैव साकं त्वरितं प्रायाद् वारिधिवर्त्मना ॥७॥ गच्छंश्च तत्र स द्वीपनि भनक्ते'ऽम्बुतालप । सत्यव्रतं तं पप्रच्छ क्षणमारतया स्थितम् ॥८॥ इतो दूरं महाभोगं किमेतद्दृश्यतेऽम्बुधौ। यदृच्छाप्रोत्सृगतोदप्रसपक्षगिरिविभ्रमम् ॥९॥


१ समुद्रे 'हैल'प्रभृतयो हीनकुत्सा मत्स्या भवन्तीति प्रसिद्धिः।