कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 649, कुल 876 में से
संदर्भ में पढ़ें५९६ कथासरित्सागरे अथ सोऽपि शक्तिवेगो राजा भूत्वा विवेश कनकपुरीम्। स्ववधूभिः सह गत्वा विद्याधरलोकवैजयन्तीं ताम्॥२८४॥ तस्यां तिष्ठन् कनकरचनाविस्फुरन्मन्दिराया- मत्योन्नत्याविष पदुपतत्पिण्डितार्कप्रभायाम्। वामाक्षीभिश्चतसृभिरसौ रत्नसोपानवापी हृद्योद्यानेष्वरभतरा निर्वृतिं प्रेयसीभिः॥२८५॥ इति कथित्वा चरितं निजमेव विचित्रमेष तत्कासम्। निजगाद शक्तिवेगो वाग्मी वत्सेश्वरं भूयः॥२८६॥ तं मां शशाङ्ककुलभूषण! शक्तिवेगं जानीह्युपागतमिमं खलु वत्सराज। उत्पन्नभाविनिज नूतनचक्रवर्ति युष्मत्सुताङ्घ्रियुगदर्शनसाभिलाषम् ॥२८७॥ इत्थं मयेह मनुजेन सतापि लब्धा विद्याधराधिपतिता पुरजित्प्रसादात्। गच्छामि चाहमधुना नृपते स्वधाम दृष्टं प्रभुर्भवतु भद्रमभङ्गुरं वः॥२८८॥ इत्युक्त्वा रचिताञ्जलौ च वदति प्राप्ताभ्यनुज्ञे तत स्तस्मिन्नुत्पतिते मृगाङ्कमहसि द्यो शक्तिवेगे क्षणात्। देवीभ्यां सहितः सबालतनयो वत्सेश्वरो मन्त्रिभि सार्धं कामपि तत्र संमदमयीं भेजे तदानीं दशाम्॥२८९॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके तृतीयस्तरङ्गः। समाप्तोऽयं चतुर्दारिकालम्बकः पञ्चमः।