भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 651, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 651

मदनमञ्चुका नाम षष्ठो लम्बक इदं गुरुगिरीन्द्रजाप्रणयमन्वरान्दोलना- त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम्। प्रसङ्ग रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते॥ प्रथमस्तरङ्ग तर्जयन्निव विघ्नौघानमितोन्नमितेन यः। मुहुर्विभाति शिरसा स पायाद् वो गजाननः ॥१॥ नमः कामाय यद्बाणपातैरिव निरन्तरम्। भाति कण्टकितं शम्भोरप्याश्लिङ्गितं वपुः ॥२॥ इत्यादि दिव्यचरितं कृत्वात्मानं किसान्यवत्। प्राप्तविद्याधरैश्वर्यो यदा मरुत् स्वयं जगौ ॥३॥ नरवाहनदत्तोऽत्र सपत्नीकैर्महर्षिभिः। पृष्टः प्रसङ्गे कुत्रापि तदिदं शृणुताधुना ॥४॥ नरवाहनदत्तस्य युवावस्था अथ संवर्ध्यमानोऽत्र पित्रा वत्सेश्वरेण सः। नरवाहनदत्तोऽभूद्व्युत्क्रान्ताष्टमवत्सरः ॥५॥ विनीयमानो विद्यासु क्रीडन्नुपवनेषु च। सह मन्त्रिसुतैरासीद्राजपुत्रस्तदा न सः॥६॥ देवी वासवदत्ता च राज्ञी पद्मावती तथा। आस्तामेकतमस्नेहात्तदेवाग्रे दिवानिशम् ॥७॥ आरोहद्गुणभङ्गेण रेजे सद्‌वंशजन्मना। आनीरापूर्यमाणेन वपुषा धनुषा च सः ॥८॥ पिता वत्सेश्वरश्चास्य विवाहादिमनोरथैः। आसन्नफलसम्पत्तिकामैः कालं निनाय तम् ॥९॥