भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 669, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 669

६१६ कथासरित्सागर दिनैः सप्तापि दुर्भिक्षदोषात्ते च विपेशिरे । जातिस्मराश्च भूयोऽपि तेन सत्येन जज्ञिरे ॥१२०॥ इत्थं फलति शुद्धेन सिक्तं सङ्कल्पवारिणा । पुण्यबीजमपि स्वल्पं पुंसां दृष्टिकृतामिव ॥१२१॥ एवमेव द्रूषितं देवि दुष्टसङ्कल्पपाथसा। फलत्यनिष्टमेत्रेह वक्ष्यन्त्यदपि तच्छृणु ॥१२२॥ ब्राह्मणचाण्डालयोः कथा गङ्गायां तुल्यकालौ द्वौ तपस्यनशने जनौ। एको विप्रो द्वितीयश्च चण्डालस्तस्थतुः पुरा ॥१२३॥ तयोर्विप्रः क्षुभाक्रान्तो निषादान् वीक्ष्य तत्रगान्। मत्स्यानादाय मुञ्चानानेव मढो व्यचिन्तयत् ॥१२४॥ अहो वास्याः सुता एते धन्या जगति धीवराः । ये यथाकाममश्नन्ति प्रत्यहं शफरामिषम् ॥१२५॥ द्वितीयस्तु स चाण्डालो दृष्ट्वा तानेव धीवरान् । अचिन्तयद्धिगस्त्वेतान् क्रूयावान् प्राणियातिनः ॥१२६॥ सत्किमेवं स्थितस्येह दृष्टीरेषां मुखेर्मम । इति सम्मील्य नेत्रे स तत्रासीत्स्वात्मनि स्थितः ॥१२७॥ प्रमाञ्चानशनेनोभौ विपन्नौ तौ द्विजान्त्यजौ । द्विजस्तत्र श्वभिर्भुक्तः शीर्णो गङ्गाजलञ्जयत्र ॥१२८॥ ततोऽमृतात्मा केवर्त्तकुल एवात्र स द्विजः । अभ्यजायत तीर्थस्य गुणाज्जातिस्मरस्त्वभूत् ॥१२९॥ चण्डालोऽपि स तत्रैव गङ्गातीरे महीभुजः । गृहे जातिस्मरो जज्ञे धीरोऽनुपहतात्मकः ॥१३०॥ जातमोदश्च तयोरेव प्राग्जन्म स्मरतोर्द्वयोः । एकोऽनुतेपे दासः सन् राजा सन् मुमुदे परः ॥१३१॥ इति धर्मतरोर्मूलमपापं यस्य मानसम् । शुध्यं यस्य च तद्रूपं फल तस्य न संशयः ॥१३२॥ इत्येतदुक्त्वा देवीं तां तारावत्तां स भूपतिः । कलिङ्गदत्त पुनरप्युवावैनां प्रसङ्गतः ॥१३३॥