कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 673, कुल 876 में से
संदर्भ में पढ़ें६१० कथासरित्सागर न भ्रांति ते निक्षेप्स्यन्ते तत्सेवाव्यसनेन हि। गता नृपतयः पूर्वमपि पाण्ड्वादयः क्षयम्॥१४८॥ इत्युक्तोऽमरगुप्तेन मन्त्रिणा स सुमेधसा। राजा विक्रमसिंहोऽत्र तथेति तदमन्यत॥१४९॥ अन्येद्युरश्वाश्वपादातसारमेयमयीं भुवम्। विचित्रवागुरोच्छायमयीश्च सकला दिशः॥१५०॥ सहर्षमृगयूथामनिनादमयमम्बरम्। कुर्वन्स मृगयाहेतोर्नगर्या निर्ययौ नृपः॥१५१॥ निर्गच्छन् गजपृष्ठस्था बाह्ये शून्ये सुरालये। पुरुषौ द्वावपश्यच्च विजनने सहितस्थितौ॥१५२॥ स्वैरं मन्त्रयमाणौ च मिथः किमपि तावुभौ। दूरात्स तर्पयन् राजा जगाम मृगयावनम्॥१५३॥ तत्र प्रोत्खातखड्गेषु बुद्धव्याधेषु च व्यभात्। क्षोभं स सिंहनादेषु भूभागेषु मृगेषु च॥१५४॥ तां स विक्रमबीजाभर्मही संस्तार मौक्तिकैः। सिंहानां हस्तिहन्तॄणां निहतानां गलच्युतैः॥१५५॥ तिर्यञ्चस्तिर्यगेवास्य पेतुर्वक्रप्लुता मृगाः। इषुभिर्भिद्य तान्पूर्वं हर्षं प्रापद्वक्रगाः॥१५६॥ कृताखेटश्च सुचिरं राजासौ श्रान्तसैनिकः। आगच्छन्निविष्टयेन चापेनोज्जयिनीं पुनः॥१५७॥ तस्यां देवकुले तस्मिंस्तावत्कालं तथैव तौ। स्थितौ ददर्श पुरुषौ निर्गच्छन्त्यौ स दृष्टवान्॥१५८॥ कावेतौ मन्त्रयेते च किंखिदेवमियच्चिरम्। नूनं चाराविमौ वीर्यरहस्याम्लापसेविनौ॥१५९॥ इत्यालोच्य प्रतीहारं विसृज्यानाययत्त तौ। पुरुषौ द्वाववष्टभ्य राजा बद्धौ चकार च॥१६०॥ द्वितीयेऽह्नि चास्थानं तावानाय्य स पृष्टवान्। कौ युवां सुचिरं कश्च मन्त्रस्तावत्स चागिति॥१६१॥ ततस्तयोः स्वयं राज्ञा तत्र पर्य्यनुयुक्तयोः। याचितोऽभययोरेको युवा वक्तुं प्रचक्रमे॥१६२॥ श्रूयतां वर्णयाम्येतद्यथावदधुना प्रभो!। अमूत्करभको नाम विप्रोऽस्यामेव च पुरि॥१६३॥