भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 685, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 685

५३ कथासरित्सागर अर्थप्रदानमेवाहुः संसारे सुमहत्तपः । अर्थदाः प्राणदाः प्रोक्ताः प्राणा ह्यर्थेषु कीर्तिताः ॥९॥ बुद्धेन च परस्यार्थे करुणाकुलचेतसा । आत्मापि तृणवद्दत्तः का वराके घने कथा ॥१०॥ तादृशेन च वीरेण तपसा स गतस्पृहः । सम्प्राप्तदिव्यविज्ञानो बुद्धो बुद्धत्वमागतः ॥११॥ आ शरीरभृतः सर्वेष्विष्टेष्वाशानिवर्तनात् । प्राज्ञः सत्त्वहितं कुर्यात्सम्यक्सम्बोधिबुद्धये ॥१२॥ सप्तराजकन्यानां कथा तथा च पूर्वं कस्यापि कृतनाम्नो महीपतेः । अजायन्तातिसुभगाः क्रमात्सप्त कुमारिकाः ॥१३॥ बाला एव च तास्त्यक्त्वा वैराग्येण पितुर्गृहम् । श्मशानं शिश्रियुः पृष्टा जगदुश्च परिच्छदम् ॥१४॥ असारं विश्वमेवैतन्नमापीदं शरीरकम् । तत्राप्यभीष्टसंयोगसुखादि स्वप्नविभ्रमः ॥१५॥ एकं परहितं त्वत्र संसारे सारमुच्यते । तदनेनापि देहेन कुर्मः सत्त्वहितं वयम् ॥१६॥ क्षिपामो जीवदेवैतञ्छरीरं पितृकानने । क्रव्याद्गणोपभोगाय कान्तेनापि ह्यनेन किम् ॥१७॥ विरक्तराजपुत्रस्य कथा तथा च राजपुत्रोऽत्र विरक्तः कोऽप्यभूत्पुरा । स युवापि सुकान्तोऽपि परिव्रज्यामशिश्रियत् ॥१८॥ स जातु भिक्षुः कस्यापि प्रविष्टो वणिजो गृहम् । दृष्टस्तद्भार्यास्तित्वरन्या पश्यन्त्यायतवेक्षणः ॥१९॥ सा तल्लोचनशोभापहृतचित्ता तमब्रवीत् । मधमास्तमिमं लक्ष्मीदृशेन त्वया व्रतम् ॥२०॥ सा धन्या स्त्री तपानेन चक्षुषा या निरीक्ष्यसे । इत्युक्तः स तया भिक्षुरुद्धृत्याक्षमपाटयत् ॥२१॥