भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 69, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 69

३६ कथासरित्सागर चतुर्थस्तरङ्गः इत्याख्याय कथां मह्यं विन्ध्यान्तं श्वोऽभिभूतये । पुनर्वररुचिस्तस्मै प्रकृतार्थमवर्णयत् ॥१॥ एवं व्याडीन्द्रदत्ताभ्यां सह तत्र वसन् क्रमात् । प्राप्तोऽहं सर्वविद्यानां पारमुत्क्रान्तशैशवः ॥२॥ इन्द्रोत्सवं कदाचिच्च प्रेक्षितुं निर्गता वयम् । कन्यामेकामपश्याम कामस्यास्त्रमसायकम् ॥३॥ इन्द्रदत्तो मया पृष्टस्तत् केयं भवेदिति । उपवर्षसुता सेयमुपकोशेति सोऽब्रवीत् ॥४॥ सा सखीभिश्च मां ज्ञात्वा प्रीतिपक्ष्मलया दृशा । स्नपन्ती मन्मथच्छेवाद्यगच्छद् भवनं निजम् ॥५॥ पूर्णचन्द्रमुखी नीलनीरोजमलोचना । मृणालनालललितभुजा पीनस्तनोज्ज्वला ॥६॥ कम्बुकण्ठी प्रवालप्रभरदनच्छदशोभिनी । स्मरभूपतिसौन्दर्यमन्दिरेवेन्दिरापरा ॥७॥ ततः कामशरापातनिर्भिन्ने हृदये न मे । निशि तस्यामभून्निद्रा तद्विम्बोष्ठपिपासया ॥८॥ कथञ्चिल्लब्धनिद्रोऽहमपश्यं रजनीक्षये । शुक्लाम्बरधरां दिव्यां स्त्रियं सा मामभाषत ॥९॥ पूर्वभार्योपकोशा ते गुणज्ञा नापरं पतिम् । कञ्चिदिच्छत्यतश्चिन्ता पुत्र ! कार्या न त्वया ॥१०॥ अहं सदा शरीरान्तर्वासिनी ते सरस्वती । त्वद्दुःखं नोत्सहे द्रष्टुमित्युक्त्वान्तर्हिताऽभवत् ॥११॥ ततः प्रबुद्धो ज्ञातास्थो गत्वाऽप्रतिष्ठमहं शनैः । दयिता-मन्दिरासन्न-वालभूत-तरोरधः ॥१२॥ अथागत्य समाख्यातस्तत्सख्या मन्निवन्धनम् । उद्गाढमुपकोशाया नवानङ्गजविजृम्भितम् ॥१३॥ ततोऽहं द्विगुणीभूततापस्तामवमब्रुवम् । अवलां गुरुभिः स्वच्छन्दमुपकोशां कथं भजे ॥१४॥