कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 707, कुल 876 में से
संदर्भ में पढ़ें३५२ कथासरित्सागर एवं कुरु सदा यावत् पिशाचो व्यक्ततां गतः । अह हि हन्मि ते व्याधिमिति त्वा वक्ष्यति स्वयम् ॥१६७॥ ततोऽभिनन्देस्तं साध्यं तव रोगं हरिष्यति । इत्युक्तस्तेन मित्रेण स द्विजस्तत्तथाकरोत् ॥१६८॥ ततः सिद्धं पिशाचं स तस्यार्तस्य महौषधीः । हिमाचलेन्द्रादानीय रोपयामास तं व्रणम् ॥१६९॥ जगाद च प्रहृष्टं तं सोऽथ रुग्णग्रहो द्विजम् । देहि व्रणं द्वितीयं मे यावत् रोपयाम्यहम् ॥१७०॥ न चेदुत्सृजाम्यन्यं ते शरीरं संहरामि वा । तच्छ्रुत्वा स द्विजो भीतः सद्यो मुक्त्यर्थं तमभ्यधात् ॥१७१॥ व्रणं द्वितीयं दास्यामि सप्तभिस्ते दिनैरिति । ततस्तेनोज्झितः सोऽभून्निराशो जीविते द्विजः ॥१७२॥ इत्युक्त्वा विरता मध्यादशखीलाख्यानसञ्ज्ञया । कलिङ्गसेना भूयः सावादीत्सोमप्रभामित्थम् ॥ १७ ॥ ततो व्रणान्तराभावादार्तं विप्रमुवाच तम् । दृष्ट्वा पृष्ट्वा च दुहिता विवन्धा मृतभर्तृका ॥१७४॥ वञ्चयेदहं पिशाचं तं गच्छ त्वं ब्रूहि तं पुनः । नाडीव्रणो मद्धुहितुर्भर्वतारोप्यतामिति ॥१७५॥ तच्छ्रुत्वा मुदितो गत्वा तथैवोक्त्वा च स द्विजः । अनेषीद्दुहितुस्तस्याः पिशाचं तं ततोऽन्तिकम् ॥१७६॥ सा च तस्य पिशाचस्य वराङ्गं स्वमदर्शयत् । रोपयेमं व्रणं भद्र ममेति ब्रुवती रहः ॥१७७॥ स च मूढः पिशाचोऽस्या वराङ्गे सततं ददौ । पिण्डीलेपादि न स्वासीत्स तं रोपयितुं क्षमः ॥१७८॥ त्रिदिनं विश्रस्तस्याः स कृत्वा जङ्घे निरामयां । किस्विन्न गह्वरीयं मे तद्वराङ्गं व्यलोकयत् ॥१७९॥ यावद्द्वितीयं तस्याथ स पायुव्रणमैक्षत । तं दृष्ट्वैव च सम्भ्रान्तः स पिशाचो व्यचिन्तयत् ॥१८०॥