भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 717, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 717

१६४ कथासरित्सागर सखि भुक्तैः फलैरेतैर्जरा ते न भविष्यति । हिमात्ययस्य रूपस्य पद्मस्येव हिमाहृतिः ॥५५॥ एतदर्थमिह स्नेहादानीता भवती मया । इति सोमप्रभा चैतां राजपुत्रीमभाषत ॥५६॥ ततः कलिङ्गसेनात्र तान्यभुङ्क्त फलानि सा । सद्योऽमृतरसासार सिक्ताङ्गीव बभूव च ॥५७॥ ददर्श च पुरोद्यानं भ्रमन्ती तत्र कौतुकात् । ससुवर्णाब्जवापीकं सुधास्वादुफलद्रुमम् ॥५८॥ हेमचित्रलगाकीर्णं समणिस्तम्भविक्रमम् । भित्तिबुद्धिकरं शून्ये भित्तौ शून्यप्रतीतितम् ॥५९॥ जले स्थलधियं कुर्वत्स्थले च जलसङ्किकृत् । लोकान्तरमिवापूर्वं मयमायाविनिर्मितम् ॥६०॥ प्रविष्टपूर्वं प्लवगैः पुरा सीतागवेषिभिः । स्वयम्प्रभाप्रसादेन चिरात्सम्प्राप्तनिर्गमैः ॥६१॥ ततस्तदद्भुतपुरप्रकामालोकविस्मिताम् । मजरामाजनीभूतां तामापृच्छ्य स्वयम्प्रभाम् ॥६२॥ कलिङ्गसेनामारोप्य यन्त्रे भूयो विहायसा । सोमप्रभा तक्षशिलामानिनाय स्वमन्दिरम् ॥६३॥ तत्र सा तद्यथावस्तु पित्रोः सर्वमवर्णयत् । कलिङ्गसेना सा चापि परं सन्तोषमीयतुः ॥६४॥ इत्थं तयोर्द्वयोः सख्योर्गच्छत्सु दिवसेष्वथ । ऊचे कलिङ्गसेनां तामेव सोमप्रभैकदा ॥६५॥ यावन्न परिणीता त्वं तावत्सख्यं मम त्वया । श्वशूभर्तृभवने पश्चान्मम स्याद्वागमः कुतः ॥६६॥ न दृश्यो हि सखीभर्त्ता नाङ्गीकार्यः कश्चन्धनः । श्ववेर्वृकीव स्नुषायाः श्वश्रूर्मांसानि खादति ॥६७॥ तथा च शृणु वक्ष्यैतां कीर्तिसेनाकथां तव । — ॥६८॥ १ मुद्रपुस्तके त्रुटितोऽत्र पाठः ।