भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 729, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 729

६७८ कथासरित्सागर

तथेत्युक्तवतीं तां च कीर्तिसेनां तदैव सः। वसुदत्तपुरं गोपः पुंवेषां नयति स्म ताम् ॥१६०॥ तच्च तत्र यथावस्तु निवेद्यार्त्याय तत्क्षणात्। प्रतीहाराय कल्याणलक्षणां तां समर्पयत् ॥१६१॥ प्रतीहारोऽपि राजानं विज्ञप्यैव तदाज्ञया। प्रवेशयामास स तां तस्यान्तःपुरमनिन्दिताम् ॥१६२॥ राजा च सोऽत्र रोगातंस्तां दृष्ट्वैवामृतदृष्टिम। आश्वस्तो वसुदत्तोऽभूद्वेधेत्यात्मेव हिवाहितम् ॥१६३॥ उवाच चैतां पुंवेषां यदिमामपनेष्यसि। रुजमेतत्प्रदास्यामि राज्यार्धं ते सुलक्षण ॥१६४॥ जाने जहार पृष्ठात्मे स्वप्ने स्त्री कृष्णकम्बलम्। सन्निश्चितमिमं रोगं हरिष्यति भवानमम् ॥१६५॥ तच्छ्रुत्वा कीर्तिसेना तं जगादाथ दिनम् गतः। देव ध्वस्तेऽपनेष्यामि रोगं मा स्मार्षृछिं कृथाः ॥१६६॥ इत्यक्त्वा मूर्ध्नि राज्ञोऽस्य गव्यं घृतमवापयत्। तेन तस्याययौ निद्रा ययौ सा चातियेदना ॥१६७॥ भिषग्रूपेण देवोऽयं पुण्यैर्नः कोऽप्युपागतः। इति तत्र च तां सर्वे कीर्तिसेनां ततोऽस्तुवन् ॥१६८॥ महादेवी च तैस्तैस्तामुपचारैरुपचरत्। नक्तं वेश्म पृथक्चास्याः सवासीकमकल्पयत् ॥१६९॥ अथापरेद्युर्मध्याह्ने मन्त्रिश्वन्तःपुरेषु च। पश्यत्सु तस्य भूपस्य कीर्तिसेना चकार सा ॥१७०॥ शिरसः कर्णमार्गेण सार्धं शतपदीशतम्। राक्षस्युदितया पूर्वं युक्त्याभ्यवहृतया तया ॥१७१॥ स्नापयित्वा च घटके सा ताः शतपदीस्ततः। घृतक्षीराभिषेकेण च नृपं समतर्पयत् ॥१७२॥ क्रमात्तस्मिन्समाश्वस्ते रोगमुक्ते महीपतौ। घटे तान्राजिमो दृष्ट्वा को न तत्र विसिस्मये ॥१७३॥