कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 735, कुल 876 में से
संदर्भ में पढ़ेंकथासरित्सागर राजा च स विलोक्यैतान्कृमीन्मूर्धनिर्गतान् । सत्रास दध्यौ मुमुदे मेने जन्म निजं पुनः ॥१७४॥ कृतोत्सवश्च स स्नातः कीर्त्तिसेनांमपूजयत् । तामनादृतराज्यार्धां ग्रामहस्त्यश्वकाञ्चनैः ॥१७५॥ देवी च मन्त्रिणश्चैतां हेम्ना वस्त्रैरपूरयन् । प्रभुप्राणप्रदोऽस्माकं पूज्यो भिषगसाविति ॥१७६॥ सा च तस्यैव राज्ञस्तान् हस्तेऽर्प्यान्सम्प्रति न्यधात् । कञ्चित्कालं व्रतस्थोऽहमित्युक्त्वा भर्त्रपेक्षिणी ॥१७७॥ ततः सम्भाव्यमानात्र सर्वैः कान्यप्यहानि सा । यावत्पुरुपवनेन कीर्त्तिसेनावतिष्ठते ॥१७८॥ तावच्छश्राव लोकात्तं वल्लभीतः समागतम् । सार्थवाहं पथा तेन देवसेनं निजं पतिम् ॥१७९॥ पुरि सत्राष तं सार्थं प्राप्तं बुद्ध्वैव सान्त्वनात् । भर्त्तरि तमपश्यच्च मयूरीव नवाम्बुदम् ॥१८० ॥ क्लिन्नेनेव चिरोत्सुक्यसन्तापप्रविलायिना । दत्तानन्दवाष्पेण पादयोस्तस्य चापतत् ॥१८१॥ सोऽपि प्रत्यभ्यजानाच्च वेषच्छन्नां निरूप्य ताम् । भर्त्ता भास्करकरांकश्यां दिवा मूर्त्तिमिवैन्दवीम् ॥१८२॥ तस्य तद्वदनेन्दु च चन्द्रकान्तस्य पद्वतः । देवसेनस्य हृदयं चित्रं न गलति स्म यत् ॥१८३॥ अथास्यां कीर्त्तिसेनायामेवं प्रकटीतात्मनि । किमेतदिति साश्चर्य स्थिते तस्मिंश्च तत्पतौ ॥१८४॥ विस्मिते च वणिग्ग्रामे तद्बुद्ध्वैव सविस्मयः । स राजा वसुदत्तांश्च स्वयमेव किलाययौ ॥१८५॥ तत पृष्टा च सा कीर्त्तिसेना पत्युः पुरार्यविप्रम् । स्वश्वश्रूद्भवशिश्रोतान्तं स्ववृत्तान्तमवर्णयत् ॥१८६॥ देवसेनश्च तच्छ्रुत्वा तद्गतां स स्वमातरि । पराङ्मुखो भवतक्रोधशमाविष्मयपर्हुवान् ॥१८७॥ भर्तृभक्तिरपारण्डा धीर्महाद्भूतशिता । धर्मगारययः साध्व्या जयन्ति मतिहेतयः ॥१८८॥