भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 737, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 737

१८२ कथासरित्सागर इति तत्र मिथोऽवादीदाकर्ण्य तदद्भुतम्। चरितं कीर्तिसेनायाः सानन्दः सकलो जनः ॥१८९॥ राजाप्युवाच पत्यर्थमायितक्लेशयानया। सीतादेव्यपि रामस्य परिक्लेदावहा जिता ॥१९०॥ तत्सा धर्मभगिनी मम प्राणप्रदायिनी। इत्युक्तवन्तं तं भूपं कीर्तिसेनाथ चाब्रवीत् ॥१९१॥ देव त्वत्प्रीतिदायो यस्तव हस्ते मम स्थितः। ग्रामहस्त्यश्वरत्नादिः स मे भर्त्रे समर्प्यताम् ॥१९२॥ एवमुक्तस्तया राजा दत्वा ग्रामादि तस्य तत्। तद्भर्तुर्देवसेनस्य प्रीतः पट्टं बबन्ध सः ॥१९३॥ अथ नरपतिदत्तसर्वणिन्याजिताैध प्रसभभरितकोपो देवसेनो धनाद्यैः। परिवृतजननीकः संस्तुवन् कीर्तिसेनां कृतवसतिरमुष्मिन्नेव तस्थौ पुरे सः ॥१९४॥ मुदितमपगतपापदवधुकं कीर्तिसेना- व्यसमचरितकथ्यख्यातिरासाध तत्र। न्यवसत्सिसभोगैश्वर्यभागान्तिकस्था मुक्कतफलसमृद्धिर्देवदेव भर्तुः ॥१९५॥ एवं विपत्सु विधुरस्य विधेर्नियोग मापत्सु रक्षितचरित्रधना हि साध्यः। गुप्ताः स्वसत्वविभवेन महत्सनेन कल्याणमादधति पत्युरथारमनश्च ॥१९६॥ इत्थं च पार्थिवकुमारि भवन्ति दोषा- श्वश्रूननान्दृविहिता बहवो वधूनाम्। तद्भर्तृवेश्म तव तावदधर्मयेद्ध्वं श्वश्रूर्न यत्र न च यत्र शठा ननान्दा ॥१९७॥ इतीवमानन्दिकमाद्भुतं सा मुक्ताश्रितम्पासुरराजपुत्र्या। सोमप्रभाया मनुजेन्द्रपुत्री कलिङ्गसेना परितुष्यति स्म ॥१९८॥ ततो विचित्नार्थकथावसानं दृष्ट्वैव गन्तुं मिहिरे प्रवृत्ते। सोत्कां समालिङ्ग्य कलिङ्गसेना सोमप्रभा स्वं भवनं जगाम ॥१९९॥ इति महाकविश्रीसोमदेवेनभट्टविरचिते कथासरित्सागरे मदनमञ्चकालम्बके तृतीयस्तरङ्गः।