भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 747, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 747

१९२ कथासरित्सागर एवं स पित्र्यं राज्यं तत्प्राप्य जित्वा ततोऽखिलाम् । यौगन्धरायणसखः प्रशास्त्युदयनो महीम् ॥६०॥ इत्याशु कथयित्वा सा कथां सोमप्रभा रहः । सखीं कलिङ्गसेनां तां पुनरेवमभाषत ॥६१॥ एवं वत्सपुरे राजत्वाद्वत्सराजः सुगात्रि सः । पाण्डवान्वयसम्भूत्या सोमवंशोद्भवस्तथा ॥६२॥ नाम्नाप्युदयनः प्रोक्तो देवरूप्यजन्मना । रूपेण चात्र संसारे कन्दर्पोऽपि न तादृशः ॥६३॥ स एकस्तव तुल्योऽस्ति पतिस्त्रैलोक्यसुन्दरि । स च वाञ्छति लावण्यल्ब्धस्तां प्राप्सिता ध्रुवम् ॥६४॥ किं तु चण्डमहासेनमहीपतितनूद्भवा । अस्ति वासवदत्ताख्या तस्याग्रमहिषी सति ॥६५॥ तया स न वृतस्त्यक्त्वा बान्धवानतिरक्तया । उपायेङ्गितवेदीनां कन्यानां धुतसञ्जयः ॥६६॥ नरवाहनदत्ताख्यस्तस्यां जातोऽस्य चात्मजः । आदिष्टः किल देवैर्या भावी विद्याधराधिपः ॥६७॥ अतस्तस्याः स वत्सेशो विमत्त्वां नेह याचते । सा च दृष्टा मया न त्वां स्पर्धते रूपसम्पदा ॥६८॥ एवमुक्तवतीं तां च सखीं सोमप्रभां तदा । कलिङ्गसेना वत्सशंगोत्सुका निजगाद सा ॥६९॥ जानेऽहमेतदवस्थायाः पित्रोः सख्यं तु किं मम । सर्वज्ञा सुप्रभावा च त्वमेवात्र म गतिः ॥७०॥ दैवायत्तमिदं कार्यं तथा चात्र कथां शृणु । सोमप्रभा तामित्युक्त्वा शशंसान्ये कथामिमाम् ॥७१॥ तेजस्वत्याः कथा राजा विक्रमसेनाख्य उज्जयिन्यामभूत्पुरा । तस्य तेजस्वतीत्यासीद्रूपेणाप्रतिमा सुता ॥७२॥ तस्याह्यभिमतः कश्चिद्याच्या नाभूद्वरो नृपः । एकदा च ददर्श पुरुषं सा स्वहर्म्यगा ॥७३॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 747, कुल 876 में से · BharatKosha