भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 805, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 805

७४६ कथासरित्सागर औत्सुक्यविमनास्तस्मिन्दिने चेतो विनोदयन् । देव्या वासवदत्ताया निवासभवनं ययौ ॥४॥ तत्र सा तं पतिं देवी निर्विकारा विशंपतं । उपाचरत् स्वोपचारैः प्राङ्मन्त्रिवरशिक्षिता ॥५॥ कलिङ्गसेनात्तान्ते ख्यातेऽप्यविकृता कथम् । देवीयमिति स ध्यात्वा राजा जिज्ञासुरूह ताम् ॥६॥ कच्चिद्देवि त्वया ज्ञातं स्वयंवरकृतो मम। कलिङ्गसेना नामैषा राजपुत्री यदागता ॥७॥ सन्सूर्त्यैवाविभिन्नेन मुखरागेण साऽब्रवीत् । ज्ञातं मयातिहर्षो मे लक्ष्मी सा ह्यागतेह न ॥८॥ वशगे हि महाराजे तत्प्राप्त्या तत्पितर्यपि । कलिङ्गदत्ते पृथ्वी ते सुतरां वर्तते वशे ॥९॥ अहं च त्वद्विभूत्यैव सुखिता त्वत्सुखेन च । आर्यपुत्र ! सर्वैतच्च विदितं प्रागपि स्थितम् ॥१०॥ तन्न धन्यास्मि किं यस्या मम भर्ता त्वमीदृशः । यं राजकन्या वाञ्छन्ति वाञ्छ्यमाना नृपान्तरैः ॥११॥ एवं वत्सेश्वरः प्रोक्तो देव्या वासवदत्तया। यौगन्धरायणप्रसशिक्षयान्तस्तुतोष सः ॥१२॥ तयैव च सहासेव्य पानं सद्धासके निशि । तस्यां सुष्वाप मध्ये च प्रबुद्धः समचिन्तयत् ॥१३॥ किन्त्विमहानुभावैत्थं देवी मामनुवर्तते । कलिङ्गसेनापि यत्सपत्नीमनुमन्यते ॥१४॥ कथं वा शक्नुयादेतां सोढुं सैषा तपस्विनी । पद्मावती विवाहेऽपि या दैवान्न जहावसून् ॥१५॥ तदस्याश्चेदनिष्टं स्यात्प्रार्थनाद्यन्ततो भवेत् । एतदासम्यना पुत्रश्वशूर्यद्वयगुरादष मे ॥१६॥ पद्मावती च राज्यं च किमप्यधिकमुच्यते । अतः कलिङ्गसेनेषा परिणेया कथं मया ॥१७॥ एवमालोच्य वत्सेशो निद्रान्ते निर्जगामतः । अपराह्ने ययौ देव्या पद्मावत्या स मन्दिरम् ॥ १८॥