भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 813, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 813

७५४ कथासरित्सागर उन्मादिन्याः देवसेननृपतेश्च कथा देवसेनस्य नृपते पुरा राष्ट्रे वणिक्सुता। उन्मादिनीतमभूत्कन्या जगदुन्मादकारिणी ॥६२॥ आवेदितापि सा पित्रा न तेनात्ता महीभृता। विप्रैः कुलक्षणैरयुक्ता तस्य व्यसनरक्षिभिः ॥६३॥ परिणीता तदीयेन मन्त्रिमूर्येन सा ततः। वातायनात्प्रादारत्मानं राज्ञेऽस्मै आत्मवर्शयत ॥६४॥ तया मुनरुया राजेन्द्रो दूराद्दृष्टिविपाहतः। मुहुर्मुमूच्छे न रतिं लेभे नाहारमाहरत् ॥६५॥ प्राषितोऽपि च सद्मन्तं प्रमुखे सोऽथ मन्त्रिभिः। धार्मिकस्तां न जग्राह तत्सक्तश्च जहावसूनू ॥६६॥ तदीवृक्षे प्रमादेऽत्र कृते द्रोहः कृतो भवेत्। इत्यालोच्य मयोक्तं ते चित्रमेत्य ततोऽद्य तत् ॥६७॥ श्रुत्वैतत्स द्विजात्तस्मान्मदनाज्ञानिभ वचः। विद्युद्द्योताहृतमनाः श्रुतसेननृपोऽभवत् ॥६८॥ छद्माणं च विसृज्यैव तत्र विप्रं तमेव सः। तश्चाकरोद्यथानीयं शीघ्रं तां परिणीतवान् ॥६९॥ ततः सा नृपतेस्तस्य विद्युद्द्योता नृपात्मजा। शरीराभ्यतिरिक्तासीद् भास्करस्य प्रभा यथा ॥७०॥ अथ स्वयंवरोपागात् नृपं रूपगर्विता। कन्यका मानुदत्ताख्या महाधनवणिक्कता ॥७१॥ अधर्मभीत्या जग्राह स गजा तां वणिक्सुताम्। विद्युद्द्योताम तद्बुद्धया हृत्स्फोटम् व्यपद्यत ॥७२॥ राजाप्यागत्य तां कान्तां पश्यन्नेव तथागताम्। अङ्क कृत्वा रु विरपन् राज्ञ प्राणवियुज्यत ॥७३॥ ततो वणिक्सुता वह्निं भानुदत्ता विवेश सा। इत्थं प्रणष्टे गर्वं तन्पि राष्ट्रं सराजकम् ॥७४॥ अतो गजन् पृष्टस्य भङ्ग प्रेम्ण भूत्सद्द। वियोगेन मनस्विन्या दम्या पागवन्तपा ॥७५॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 813, कुल 876 में से · BharatKosha