भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 83, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 83

४८ कथासरित्सागर

तन्मेव तन्न शास्त्रं न पाणिनीयं प्रकाशितम्। तदिच्छानुग्रहादेव मया पूर्णकृतं च तत्॥८८॥ ततोऽहं गृहमगच्छमशाताध्वपरिश्रमः। निशाकरकलामौलिप्रसादामृतनिर्भरः ॥८९॥ अथ मातृगुरूणां च कृतपादामिवन्दनः। तत्रोपकोशावृत्तान्तं समग्रौषं महाद्भुतम् ॥९०॥ तेन मे परमां भूमिमात्मन्यानन्दविस्मयौ। तस्यां च सहजस्नेहबहुमानादगच्छताम् ॥९१॥ वर्षोऽप्य मन्मुखाच्छ्रुत्वैतत्तु व्याकरणं नवम्। ततं प्रकाशितं स्वामिकुमारेण तस्य तत्॥९२॥ ततो व्याडीन्द्रदत्ताभ्यां विज्ञप्तो दक्षिणां प्रति। गुर्वर्षोऽब्रवीत् स्वर्णकोटिं दीयतामिति ॥९३॥ अङ्गीकृत्य गुरोर्वाक्यं तौ च मामित्यवोचताम्। एहि राज्ञः सख ! नन्दाद्याचितुं गुरुदक्षिणाम् ॥९४॥ गच्छामो नान्यतोऽस्माभिरित्यात्कञ्चनमवाप्यते। नवाधिकानां नवतेः कोटीनामधिपो हि सः॥९५॥ वाचा तेनोपकोशा च प्राग्धर्मभगिनी कृता। अत' स्यात् स ते किञ्चित् त्वद्गुणेन समवाप्स्यते ॥९६॥ इति निश्चित्य नन्दस्य भूपतेः कटकं वयम्। मयोध्यास्थमगमच्छाम त्रयः सद्ब्रह्मचारिणः ॥९७॥ प्राप्तमात्रेषु चास्मासु स राजा पञ्चतां गतः। राष्ट्रे कोलाहलः जातो विषादेन सहैव नः ॥९८॥ अवोचदिन्द्रदत्तोऽथ तत्क्षणं योगसिद्धिमान्। गतासोरस्य भूपस्य शरीरं प्रविशाम्यहम् ॥९९॥ मर्थी वररुचिर्मेऽस्तु दास्याम्यस्मै च काञ्चनम्। व्याडी रक्षतु मे देहं ततः प्रत्यागमावधि ॥१००॥ इत्युक्त्वा नन्ददेहान्तरिन्द्रदत्तः समाविशत्। प्रत्युज्जीवति भूपे च राष्ट्रे समोत्सवोऽभवत् ॥१०१॥ शून्यं दवगृहं देहमिन्द्रदत्तस्य रक्षितुम्। व्याडी स्थिते गतोऽभूवमहं राजकुलं तदा ॥१०२॥