कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 857, कुल 876 में से
संदर्भ में पढ़ें७१८ कथासरित्सागर वीक्ष्य तं सगुणं पुत्रं वत्सेशास्तामशिक्षयत् । कलिङ्गसेनातनयां नृत्तं मदनमञ्चुशाम् ॥१६२॥ यथा यथा पूर्णकला साभूत्सुमुरिखन्दवी । नरवाहनदत्ताब्धिवृद्धये स तथा तथा ॥१६३॥ अरस्त तां च गायन्तीं नृत्यन्तीं च विलोकयन् । पठन्तीमिव कामाज्ञामङ्गाभिनयमूर्ताम् ॥१६४॥ सापि क्षणमपश्यन्ती तन्मुखेन्दुं सुधामयम् । क्लान्तासीदुप काले जलाद्रेव कुमुद्वती ॥१६५॥ सवत धासहः स्थातुं तन्मुखालोकनं विना । नरवाहनदत्तोऽसौ तत्तदुद्यानमाययौ ॥१६६॥ तत्र पार्श्वं तयानीय सुतां मदनमञ्चुकाम् । कलिङ्गसेनया प्रीत्या रज्यमानः स तस्थिवान् ॥१६७॥ गोमुखश्चास्य चित्तज्ञः स्वामिनोऽत्र चिरस्थितिम् । इच्छन्कलिङ्गसेनार्थं तां तामकथयत्कथाम् ॥१६८॥ चित्रग्रहेण तेनास्या राजपुत्रस्तुतोष सः । हृदयानुप्रवेशो हि प्रेम्णो सवतनं परम् ॥१६९॥ गुप्तादियोग्यां कृप्ते तस्मिन्मदनमञ्चुकाम् । तत्र स्वयं च संगीतवेश्मन्युद्यानवर्त्तिनि ॥१७०॥ नरवाहनदत्तं स ह्रेपयन्वरचारुमान् । तस्यां प्रियायां नृत्यन्त्यां सर्वास्तोद्यान्यवादयत् ॥१७१॥ जिगाय चागतान् दिग्भ्यो विविधां पण्डितांस्तथा । गजाश्वरथशास्त्रास्त्रचित्रपुस्तादिकोविदः ॥१७२॥ एवं विहरतो विद्यास्वयंवरवृतस्य ते । नरवाहनदत्तस्य शैशवे बासरा ययुः ॥१७३॥ एकदा चान्न यात्रायामुद्यानं स प्रियसखः । ययौ नागवनं नाम राजपुत्रः समंत्रिकः ॥१७४॥ तत्राभिलाषिणी काचिद् वणिग्भार्या निराकृता । इयेष गोमुखं हन्तुं सविषाहृतपानका ॥१७५॥ तद्विवेद च तरसस्या मुखादत्त च गोमुखः । नाददे पानकं तच्च स्त्रियं एवं निनिन्द च ॥१७६॥