कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 89, कुल 876 में से
संदर्भ में पढ़ें४ कथासरित्सागर व्याधिस्ततोऽवदद्राजञ्शरीरे क्षणनश्वरे । एवंप्रायेष्वसारेषु धीमान्को नाम मज्जति ॥१३३॥ नहि मोहयति प्राज्ञं लक्ष्मीरूमरुमरीचिका । इत्युक्त्वैव स तत्कालं तपसे निर्जगतो ययौ ॥१३४॥ अगमच्च योगनन्दं पाटलिपुत्रं स्वराजनगरं सः । भोगाय चाणमूर्ते ! मत्सहितः सकलसैन्ययुतः ॥१३५॥ तत्रोपक्रोधापरिचर्यमाणः समुद्वहन्मन्त्रिधुरं च तस्य । अहं जनन्या गुरुभिश्च साकमासाद्य लक्ष्मीमवसं चिराय ॥१३६॥ बहु तत्र दिने दिने द्विजेभ्यः कनकं मह्यमदात्प्रसन्ना । वव्राति स्म शरीरिणी च साक्षान्मम कार्याणि सरस्वती सदैव ॥१३७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके चतुर्थस्तरङ्गः ।
पञ्चमस्तरङ्गः एवमुक्त्वा वररुचिः पुनरेतदवर्णयत् । कालेन यागमन्दोऽयं कामादिवसमामयौ ॥१॥ गजेन्द्र इव मत्तश्च नापेक्षत स किञ्चन । अकाण्डपातोपनता न न लक्ष्मीर्विमोहयेत् ॥२॥ अचिन्तयं ततश्चाहं राजा तावद् विमूर्च्छकः । तत्कार्यचिन्तयाक्रान्तः स्वधर्माद् मेऽप्रसीदति ॥३॥ तस्माद् वरं सहायं तं शकटालं समुद्धरे । श्रियेत चेद् विरुद्धं च किं स कुर्यान्मयि स्थिते ॥४॥ निश्चित्यैतन्मयाभ्यर्थ्य राजानं सोऽन्धकूपतः । उद्धृतः शकटालोऽथ मुमुदे हि विजातये ॥५॥ दुर्जयो योगनन्दोऽस्य स्थिते वररुचावतः । आश्रये वैतसीं वृत्तिं काले तावत्प्रतीक्षितुम् ॥६॥ इति सञ्चिन्त्य स प्राज्ञः शकटालो मदिच्छया । अकरोद्राजकार्याणि पुनः सम्प्राप्य मन्त्रिताम् ॥७॥ कदाचिद्योगनन्दोऽथ निर्गतो नगराद् बहिः । क्षिपन्त्यल्पञ्चाङ्गुलिं हस्तं गङ्गामध्ये व्यलोकयत् ॥८॥