कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 93, कुल 876 में से
संदर्भ में पढ़ें५८ कथासरित्सागर सर्वत्रान्तः पुरे ह्यत्र स्त्रीरूपाः पुरुषाः स्थिताः । हन्यन्तेऽनपराधस्तु विप्र इत्यहसत्त्विति ॥२४॥ भूतानां पार्थिवात्यर्थनिर्विषक्तत्वहासिनाम् । सर्वान्तश्चारिणां ह्येता भवन्त्येव च विक्रियाः ॥२५॥ एतत्तस्या वचः श्रुत्वा ततोऽप्रक्रान्तवाहनम् । प्रातश्च मत्स्यहासस्य हेतुं राज्ञे न्यवेदयम् ॥२६॥ प्राप्य चान्तःपुरेभ्यस्तान्स्त्रीरूपान्पुरुषांस्ततः । बहुमन्यत मां राजा वधाद् विप्रं च मुक्तवान् ॥२७॥ इत्यादि चेष्टितं दृष्ट्वा तस्य राज्ञो विश्रब्धहृदयम् । श्लिष्टे मयि कदाचिच्च तत्रागाच्चित्रकृन्नरः ॥२८॥ अलिखत्स महादेवीं योगनन्दं च तं पटे । सजीवमिव सञ्चित्रं वाक्चेष्टारहितं त्वभूत् ॥२९॥ तं च चित्रकरं राजा तुष्टो वित्तैरपूरयत् । तं च वासगृहे चित्रपटं भित्तावकारयत् ॥३०॥ एकदा च प्रविष्टस्य वासके तत्र सा मम । सम्पूर्णलक्षणा सर्व्वी प्रतिभाति स्म चित्रगा ॥३१॥ लक्षणान्तरसम्बन्धादभ्यूह्य प्रतिभानतः । अथाकारयमंह तस्यास्तिलकं मेखलापदे ॥३२॥ सम्पूर्णलक्षणां तेन कृत्स्नां गतवानहम् । प्रविष्टो योगनन्दोऽथ तिलकं तं व्यलोकयत् ॥३३॥ केनाप्य रचितोऽत्रेति सोऽपृच्छच्च महत्तरान् । ते च न्यवेदयस्तस्मै कर्त्तारं तिलकस्य माम् ॥३४॥ देव्या गुप्तप्रवेशस्थमियं नान्यो मया विना । वेत्ति तज्ज्ञातवानेवमसौ वररुचिः कथम् ॥३५॥ सन्निहितोऽधुना नूनं ममान्तःपुरविप्लवः । दृष्टवागतएवायम् स्त्रीरूपांस्तत्र तान्नरान् ॥३६॥ इति सन्दिग्धयामास योगनन्दः क्रुधा ज्वलन् । जायन्ते बत मूढानां यत्नादा अपि तादृशाः ॥३७॥ ततः स्वैरं समाहूय शकटालं समादिशत् । त्वया वररुचिर्बध्यो देवीविप्रलम्भनादिति ॥३८॥